________________
तरङ्ग ४/ कथा ९८-१००
१२७ इति पतिनिषेधान्मौनमाधाय स्थितायां तस्यां कियत्सु दिनेषु गतेषु पुनरपि धनश्रिया तथैव कनकश्रीरभिहिता। पुनरपि तया पृष्टः पतिस्तथैवाह। अन्यदा च धनिके क्वापि पुरान्तरं गते कन्यारूपमोहितया कनकश्रिया पत्याज्ञामुल्लङ्घ्य स्वसुतश्चन्दनामुद्वाहितः।
गृहमागतश्च कनकदेवः सुतविवाहस्वरूपमवगम्य मौनं कृत्वा तस्थिवान्। अन्यदा स्वनिषेधफलविज्ञापनाय भोजनवेलामतिक्रम्य गृहमागतः श्रेष्ठी प्रियां प्राह- हे प्रिये ! अधुनैकस्याऽधमर्णस्य प्रभूतं वित्तं देयमस्ति, तेनैकं तवाभरणमेकं च स्नुषाभरणं दीयतामित्युक्ते प्रियया बहुमूल्यमेकमाभरणमदायि। तदा च स्नुषयाऽभ्यधायि, यदि मदाभरणमादास्यते तदाऽहं कण्ठपाशेन प्राणत्यागं विधास्ये, इत्युक्ते श्रेष्ठी प्रियां प्रोचिवान्- हे प्रेयसि ! यदस्याः स्नुषाया मातामही कण्ठपाशेन परासुरभूत्तेनाऽस्यामपि स दोषो भवितेति विवाहार्थं त्वामहं निषिद्धवान्। अथ कनकश्रीरपि स्वस्वामिमतिं वरीयसी मन्यमाना पत्या सह भोगानुपभुज्य काले पत्या सह धर्मपरायणा सती सन्मार्गमाराधितवती ॥ इति पूर्वजदोषः पौत्रादिष्वपि स्यादित्यर्थे श्रेष्ठिस्नुषाचन्दनाकथा ॥ ९९ ॥
॥१०० ॥ जीवतां कल्याणागम इत्यर्थे भानुमन्त्रिकथा । जीवतां प्रायेण विपत्तिप्रणाश: स्यात्, यतः
जीवैः प्रायेण जीवद्भि-विपत्तिरभिभूयते ।
क्षीणभावो निराकारि, न किं कुमुदबन्धुना ? ॥ १ ॥ तेनावश्यमेव जीवन्तः पुमांसः कल्याणभाजो भवन्ति । यतः
भानुश्च मन्त्री दयिता सरस्वती, मृतिं गता सा नृपकैतवेन । ___ गङ्गां गतस्तां पुनरेव लेभे, जीवन्नरो भद्रशतानि पश्यति ॥ २ ॥
तथाहि- तुरगदे नगरे नरराजस्य राज्ञो भानोर्मन्त्रिणः सरस्वतीप्रिया, रोहिणीरोहिणीप्राणेशयोरिव परस्परं प्रीतिप्रह्वयोर्मन्त्रिप्रिययोः प्रयान्ति वासराः। अन्यदाऽनयोमिथः प्रभूतप्रेमवार्ताकर्णनविस्मितेन मृगयां गतेन राज्ञा कौतुकेनाऽन्यजीवरुधिराऽङ्कितवस्त्रसहितो मन्त्रितुरङ्गमः पुरम्प्रति प्रहितः । स्वप्रियं विना रक्ताऽङ्कितस्वनाथवस्त्रयुतं तमश्वमायान्तं विलोक्य हा मृगयां गतो मम प्राणेशः केनाऽपि सिंहादिना दुष्टश्वापदेन हत इति ध्यायन्ती सरस्वती वज्राहतेव भूमौ पतिता मृता च। ज्ञाततन्मरणेन हा हास्यस्थाने विषादः सम्पन्न इति खेदात्तेन राज्ञा ज्ञातस्वप्रियामरणो मन्त्री प्रकामोपायेन रक्षितः, परमन्यकलत्रविमुखस्तदस्थीन्यादाय स्वीकृतयोगिवेषो गङ्गां प्रति गच्छन् मन्त्री द्वादशाब्दैर्गङ्गोपकण्ठस्थितं महारथपुरं प्राप्तः, तत्र च शतरथो राजा, तस्य च भारतीसुता, तत्रैव च महासेनश्रेष्ठिनः श्रीमती सुता, राजसुता श्रेष्ठिसुता चेति मिथः सौहार्दशालिन्यौ स्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org