________________
१२०
श्री कथारत्नाकरे
श्री हेमविजयरचिते इति लज्जिता मौनमाधाय सा स्थिता । अन्यदा वीरश्रिया सह कलहे जायमाने तत्पूर्वचरित्रप्रकाशनपूर्वं तां प्रभूतस्त्रीसमक्षं सा स्नुषा विडम्बयामास।
अथ पविपातेन निहतेव दुःखिता वीरश्रीर्दध्यौ, यदहो इयन्तं कालं पत्या मन्मर्म मनसि रक्षितम्, अथ तु प्रकटितं, तेनाऽलं मम प्राणैरिति सा कण्ठपाशेन प्राणान् जहौ। रमणीमरणतः पुण्यसारोऽपि वार्द्धके भृशमशर्मभाक् लोकैः पृष्टः प्रलपति 'भासिआओ अभासिअं वरं' इति सर्वत्र सर्वदा प्रलपन् कालमनैषीत् ॥ इति मर्मकथनेऽनर्थ इत्यर्थे पुण्यसारश्रेष्ठिकथा ॥ ९१ ॥
॥ ९२ ॥ स्त्रीचरित्रे वसुदत्तविप्रप्रियाकथा ॥ सर्वत्रोपायनिर्मितौ चतुरोऽपि चतुराऽऽननः स्त्रीचरित्रे निरुद्यमः, यतः
तापेष्वातपवारणं जलनिधौ यानं तमःसङ्गमे । दीपं सर्पभयेषु मन्त्रमनघं स्तम्बेरमेष्वङ्कशम् । पाकेषु ज्वलनं मलेषु सलिलं रोगव्रजेष्वौषधं ।
ब्रह्मोपायमसूत्रयन्मृगदृशां वृत्ते च सोऽनुद्यमः ॥ १ ॥ तेनाब्धेरपां पारो न तु योषिच्चरित्राणां, यतः--
लाम्पट्यकौटिल्यकलाकुलाना-महो चरित्रं चपलेक्षणानाम् ।
यत्स्वैरिणीस्त्री पुरतो जनानां, कलङ्कयामास कुमारपालम् ॥ २ ॥ तथाहि- कलिकालसर्वज्ञे श्रीहेमचन्द्राचार्ये द्वात्रिंशद्दशनशुद्धये स्वयं निर्मितान् द्वात्रिंशत्प्रकाशान् श्रीकुमारपालभूपालं पाठयति सति क्रमेण गृहस्थतुर्यव्रताधिकारस्थ:
प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥ ३ ॥ [योगशास्त्रे २/८५]
असौ श्लोकः समागतः। अर्थतश्चैनं श्लोकमधीत्य राजा गुरुमाह- हे भगवन् ! यत्कवयो मेरुं कक्कर, कक्करं च मेरुमिति कवयन्ति तत्सत्यमासीत्। यतः
कवियण किमहि न छेडिइ जउ होइ हियडइ सान।
मेरु टालइ कक्कर करइ कक्कर मेरुसमान ॥ ४ ॥ तेनैतासामबलानां स्वभावभीरूणां चरित्रेषु भगवद्भिरित्थं या दुःखबोधताऽभ्यधायि सा सर्वथा कविकलाकौशलरूपैवेति कदाग्रहपरं पार्थिवं गुरुराह- हे राजन्नत्रार्थे भूरयः पूर्वसूरयः प्रमाणं, यतः
जलमज्झे मच्छपयं, आगासे पंखियाण पयपंती । जाणंति बुद्धिमंता, महिलाचरिअं न याणंति ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.