________________
तरङ्ग ४/ कथा ८९-९१
११९ ॥ ९१ ॥ मर्मकथनेऽनर्थ इत्यर्थे पुण्यसारश्रेष्ठिकथा ॥ कथिते हि मर्मण्यवश्यमनर्थाऽवाप्तिः, यतः
मर्मवाग् दासविश्वासः, स्वैः कलिः खलसङ्गतिः ।
विरोधो बलिभिश्चाऽमी, पञ्चाऽनर्थप्रपञ्चकाः ॥ १ ॥ अपि च
मर्मवाक्यं न वक्तव्यं, कदाचिदपि धीधनैः । . ___यन्मर्मकथनाजज्ञे, दुःखभाक् स्त्रीमृतेर्वणिक् ॥ २ ॥ तथाहि- वरणनामनगरे पुण्यसारः श्रेष्ठी, स चैकदा पितृगृहाद्वीरश्रीनामस्वप्रियामानेतुं तत्र गतः, पतिगृहे समागमनमनीहमानां तां हठादादाय वर्त्मनि व्रजस्तया कूपात्पयः प्रतिकर्षन् स निजपतिः कूपे क्षिप्तः, स्वयं च सा प्रणश्य पितृगृहे गता। किमिदमभूदिति पित्रा पृष्टा साऽभाषिष्ट-यत्पथि चौरैलुंण्टितो मत्पतिस्ततो नंष्ट्वा जीवन् क्वाऽपि गतो मृतोऽथवेति नाऽवगम्यते, अहं चेह समागां, एवं तद्वचः सत्यं मन्यमानेन पित्रा रक्षिता गृहे सा स्वैरं तस्थौ। पुण्यसारोऽपि दैवात्कूपवेदिकायां पतितो जलार्थं समेतैः पान्थैर्माणन् स कूपात्कर्षितो निजाऽगारमगात्। पृष्टश्च परिजनैः पत्नीवदभिधाय गृहे तिष्ठति स्म।।
पुनरपि कियता कालेन स श्वशुरौकसि गतः पृष्टोऽयं च पथस्वरूपं तैस्तमवोचत्, तदाऽहं पथि गृहीतसर्वसारैस्तस्करैः पुण्यप्रभावाज्जीवन्मुक्त इति मर्मपिधानेन पत्यौ प्रकामं मुदितां तामादाय स स्वगृहं समेतः। ततो लक्ष्मी-लक्ष्मीनाथयोरिव प्रभूतप्रीतिप्रसक्तयोस्तयोर्विषयाननुभवतोः सुतः समजनि। एकदा भुञ्जानस्य तस्य भोजनभाजने वातूलोल्लालितं रजः पतत्तया निजोत्तरीयाञ्चलेन न्यवारि। तदा च स्मृतपूर्वचरित्रः स मनाक् स्मितमकरोत् । तदा निकटस्थेन स्थावराऽऽख्येन तत्सुतेन विजने जनक: स्मितकारणं पृष्टः, अकथयन्नपि स पुत्रहठाद्यथाजातं प्रियाचरित्रं पुत्रपुर: प्रोचिवान्। एकदा स्वजातिगर्वपर्वताऽधिरूढायां स्वप्रियायां रहसि स्थावरः स्वमातुश्चरित्रं पत्नीपुरो निवेद्य स्माह-धिग्भवतीनां जाति, यत्कुपिता भवन्त्यः सम्बन्धिन्यप्यनर्थं प्रकुर्वन्ति। यतः
नितम्बिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ॥ ३ ॥ [योगशास्त्रे २८६] तेन स्वाभाविकाऽशेषदोषवतीषु भवतीषु कः प्रेमावतारः? यतःवञ्चकत्वं नृशंसत्वं, चञ्चलत्वं कुशीलता ।
इति नैसर्गिका दोषा, यासां तासु रमेत कः? ॥ ४ ॥ [योगशास्त्रे २/८६] १. पितृगृहाद्वीरश्रियं नाम स्व° PBD ॥ २ .BDI पृष्टश्व पथस्वरूपं तथैवाऽवोचत् मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org