________________
११८
श्री कथारत्नाकरे
श्री हेमविजयरचिते यद्ययं धनिको निजां पत्नी स्वयं दत्ते, तदाऽहमेनां करोटिकां तत्स्थाने मुञ्चामीति वैद्येनोक्ते मुक्तदृग्बन्धनः स पुरन्दरः पुर: स्थितां सकलशृङ्गारसुन्दरी सुन्दरी निरीक्ष्य प्रियावियोगजनितेन दुःखेन प्रकामं निःश्वासं व्यधात्, दुःखानां हि चिह्नमिदं
बहु दुक्ख हउली विणुं जइ निसास न हुंति ।
हियडु रान तलाव जिम फाटी यहद सिजंति ॥५॥ तदा तेन बाढं निःश्वसितेन प्रेरिता सा करोटिका द्रुतमधस्तादुपविष्टा। अथ स वैद्यो धनवत्याः पादौ प्रणम्य श्रेष्ठिनमाह-हे श्रेष्ठिन् ! बहुदुःखार्थमिदं मया निरमायि, प्रियावियोगं विनाऽस्य बहुदुःखं न स्यात्, तदभावे च बाढनिःश्वासो न स्यात् तदभावे चैषा करोटिका स्थाने नोपविशतीति वैद्योक्तमाकर्ण्य स्वं सुतं च नीरोगं विज्ञाय तेन श्रेष्ठिना बहुवस्त्रमणिकनकधनादिना सत्कृतः स वैद्यः स्वस्थाने ययौ। पुरन्दरोऽपि नीरोगः सन् गृहस्थतां प्रतिपाल्य प्रान्ते धर्ममाराध्य सद्गतिमसाधयत् ॥ इति स्त्रीवियोगो दुस्सह इत्यर्थे पुरन्दरश्रेष्ठिकथा ॥ ८९ ॥
॥ ९० ॥ नीचसङ्गादनाधिगम इत्यर्थे हंसकथा ॥ यादृशां सङ्गतिस्तादृशा एव गुणाः, यतः
सन्तप्ताऽयसि संस्थितस्य पयसो नामाऽपि न ज्ञायते । मुक्ताऽऽकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिसम्पुटगतं तज्जायते मौक्तिकं ।
प्रायेणाऽधम-मध्यमोत्तमगुणः संवासतो जायते ॥ १ ॥ तेन नीचसङ्गादवश्यमनर्थाः स्युः यतः
नीचसङ्गप्रसङ्गेन, मृत्युरेव न संशयः ।
हंसः पक्षिवतंसोऽपि, काकसङ्गान्मृतिं ययौ ॥ २ ॥ तथाहि- अतिघननामवने नगरकण्ठो नाम काको महत्येकस्मिन् वटे वसति । तत्र वटे चैकदा मानसं प्रति गच्छन् मरालस्तस्थौ। दैवात्तस्य तेन नगरकण्ठेन सह सख्यमासीत् । तस्योपरोधेन सरलाऽऽत्मा स हंसस्तत्रैव दिवानक्तं तिष्ठति। अन्यदा तत्रैव वने मृगयार्थं भ्रमन् जितारि: पार्थिव: श्रमाऽपनोदायाऽतुच्छच्छायासङ्कटे तत्रैव वटे विशश्राम। विश्रान्ते च तस्मिन् राजनि नीचस्वभावः स वायसस्तन्मस्तके विष्टामकरोत्। एतदनर्थमूलं तं वायसं हन्तं तेन राज्ञाऽपि मार्गणो व्यमोचि। तथाविधं चाऽस्य भूपस्य व्यापारं विलोक्य क्वापि गते तस्मिन् विहगधूर्ते ध्वाक्षे तत्समीपस्थितः सरलाऽऽत्मा स मरालो बाणविद्धो यमधाम जगाम ॥ इति नीचसङ्गादनाऽधिगम इत्यर्थे हंसकथा ॥ ९० ॥ १. तुला "ध्याननिश्वसबहुलं लिङ्गा कामश्वरे स्मृतम्" चरकसंहितायाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org