________________
तरङ्ग ४/ कथा ८८-८९
११७ ॥८९ ॥ स्त्रीवियोगो दुस्सह इत्यर्थे पुरन्दरशेष्ठिकथा ॥ पितृमातापुत्रादिभ्योऽपि स्त्रीस्नेहः पुंसां महीयान्, यतः
गुरु गुरुतरोअ अइगुरु, पिउमाइअवच्चपिअजणसिणेहो।
चिंतिजमाण गुविलो, चत्तो अईधम्मतिसिएहिं ॥ १ ॥ तेन स्त्रीपराभूतौ हि लघीयसामपि दु:खं, यतः
जायते स्त्रीपराभूति-लघूनामपि दुस्सहा ।
पक्षिणोऽपि प्रकुर्वन्ति, स्वकलत्रकृते कलिम् ॥ २ ॥ किं बहुना ? पत्नीपराभवे यदशर्म तस्य स्वरूपं वक्तुं न कोऽप्यलं, यतः
यादृग्व्यथा स्याद्दयितावियोगे, तादृग् न मातृस्वसृबन्धुनाशे ।
यत्तद्व्यथानिःश्वसितेन भर्तुः, करोटिकासम्पुटमाप सन्धिम् ॥ ३ ॥ तथाहि- श्रीसुन्दरनामनगरे महेभ्यस्य सुन्दर श्रेष्ठिनः पुरन्दरः पुत्रः, स च पित्रा रूपसौभाग्यवतीं धनवतीनामकन्यामुद्वाहितः । जलक्रीडातत्परस्य तस्य शिरसि भेकी समुत्पन्ना। तव्यथया दिने दिने तन्नेत्रतेजो हीयते, शिरोऽर्तिश्च भूयसी भवति। किं बहुना ? मरणावस्था निकटवर्तिनीवाऽजनि। अथ तत्पित्रा कारितेष्वपि भूरिषूपचारेषु व्यथाशान्तिर्नाऽऽसीत् ।
अथैकदा तत्र पुरे वैद्यकलाकुशलः कुशलो नाम वैद्यः समेतः, श्रेष्ठिना दर्शिते सुते जलक्रीडावशादस्य मूर्द्धनि भेकी समुत्पन्नाऽस्तीति, तेन च तस्य नेत्रव्यथा शिरोव्यथा चाऽस्तीति। यतः
माषारनाल-तिलतैल-जलावगाह-कट्वम्लशाक-दधिफाणित-धूमतापैः ।। सूक्ष्माक्षरेक्षण-दिवाशयनाच्च पुंसां, चक्षुः क्षयं व्रजति धामपतौ च दृष्टे ॥ ४ ॥
इति तेन सत्यनिदानेऽभिहिते श्रेष्ठी तमभाषिष्ट, हे वैद्यराज! यदि मे सुतः सज्जः स्यात्तदा सुततुलितं कनकं रत्नजातं वा यच्छामीति तदुक्त: स स्माह-कनकादिना न मम कृत्यं, यद्यस्य पत्नी दीयते तदैनं सज्जयामि नाऽन्यथेति तदुक्तः स दध्यौ, अहो कथमिदमकृत्यं भावि?
इतः सुतमरणमितः परपुत्र्याः स्नुषायाश्च दानमिति व्याघ्रतटीन्याय: सम्पन्नः, तथाऽपि तेन रहसि वैद्योक्तं स्नुषा पृष्टाऽवादीत्, हे तात! पृच्छयतामसौ भिषक्, यन्मां पुत्रीत्वेन पत्नीत्वेन वा स रक्षयिष्यतीति? तथैव चोक्ते श्रेष्ठिना सोऽवोचत्-मम धाग्नि सुतात्वेनैषा स्थास्यतीति तदुक्तमाकर्ण्य सा दध्यौ यन्मम भर्तरि जीवति सधवाऽहं तिलक-ताम्बूल-कुसुमकुङ्कम-कङ्कण-कञ्चुक-कज्जलशालिनी भविष्यामि, पितुरिवास्य वेश्मनि शीलपालनं च भवितेति तया वैद्यगृहाऽवस्थितौ स्वीकृतायां श्रेष्ठी स्नुषापितृ-नगरश्रेष्ठि-मन्त्रि-राजसम्मतिपूर्वकं स्नुषादानमङ्गीचकार। अथ वैद्योऽपि तन्नेत्रयोः पटबन्धं विधाय निशितेन शस्त्रेण तत्करोटिकामुत्पाटयाञ्चक्रे । तदा च सा भेकी करोटिकारन्ध्रेण सजलनव्यमृत्तिकागन्धेन बहिरपतत् । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org