________________
११६ श्री कथारत्नाकरे
श्री हेमविजयरचिते अथ तस्यैनमाडम्बरं निरीक्ष्य राज्ञी 'स्त्रीचरित्रं वेत्सि?' इति स्वदास्या तमप्राक्षीत् । मद्वामपादाङ्गलिनखाग्रे समस्तं स्त्रीचरित्रमस्तीति तद्वचो निशम्य तद्र्वनिराकरणाय राज्ञी राजानं व्याजहार- हे नाथ ! युष्मद्गुरोः पार्श्वेऽहं भागवतं श्रोतुमिच्छामि। इयमपि भागवतश्रवणात् शैवधर्मकर्मठा भूयादिति भूपेनाऽऽकारितो भट्टोऽन्तःपुरपुरस्ताद्भागवतं वाचयति। सा राज्यपि तत्पुर:स्था तमालोक्य दम्भेन स्मरातुररमणीचिह्नमकरोत् तथाहि
स्त्री कान्तं वीक्ष्य नाभिं प्रकटयति मुहुर्निक्षिपन्ती कटाक्षान् । दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्य पाणिम् । निःश्वासस्वेदजृम्भाः श्रयति कुचतटस्रंसि वस्त्रं विधत्ते ।
सोत्कण्ठं वक्ति नीवी शिथिलयति दशत्योष्ठमङ्ग भनक्ति ॥ ३ ॥ सोऽपि तामेतादृशीं दृष्ट्वा तस्यां रागवानासीत् । स्मराऽऽर्तानां कुतः कौशलं, यतः
विकलयति कलाकुशलं, हसति शुचिं पण्डितं विडम्बयति ।
अधरयति धीरपुरुष, क्षणेन मकरध्वजो देवः ॥ ४ ॥ अथाऽऽत्मनि गाढरागिणं तं निभाल्य कल्ये मम सौधे समेतव्यमिति तया दत्तसङ्केतो भट्टस्तदाऽऽवासमगात्। अथ तदैवैकां बालिका बहिः स्थापयित्वा दत्तकपाटा राज्ञी भट्टयुता सौधान्तर्गता। इतस्तदैव द्वारि समागतेन राज्ञा कथं कपाटं दत्तमिति प्रोक्ता सा बालिका मध्ये भट्टोऽस्तीति भणति स्म। तन्निशम्य कामं कुपितेन राज्ञा कपाटमुद्घाटयेति कथिते भृशं चकितं तं भट्ट मञ्जूषायां निक्षिप्य तन्मुखे च तालकं दत्त्वा राज्या द्रुतमुद्घाटिते द्वारेऽन्तः समेतेन राज्ञा भट्टः क्वास्तीति राज्ञी प्रोचे। साऽवदन्मञ्जूषायां निक्षिप्तोऽस्ति भट्टः, तत्तालककुञ्चिकाऽपि चेहाऽस्तीति तदुक्तस्थानात् कुञ्चिकामादाय मञ्जूषाम्प्रति चलिते राज्ञि, सा हस्ताऽऽस्फालनपूर्वकं बाढं स्मितमकरोत्।
कथं हसिताऽसीति राज्ञोक्ता सा स्माह, हे नाथ ! त्वादृशो मूर्यो न मयाऽस्मिन् जन्मनि दृष्टो न च श्रुतः, तत्कथमिति तेनोक्ते सा पुनः प्राह, हे स्वामिन्नीदृशमकृत्यं मया सर्वथा न क्रियते, यदि च क्रियते तदा कथं कुञ्चिकास्थानदर्शनादि सर्वं सत्यमुच्यते? तत्तु सर्वं मदुक्तं त्वया सत्यमज्ञायि, तेन भवन्मूर्खताप्रेरिता हसिताऽस्मीति तदुक्तं सत्यं ज्ञात्वा क्षणं च तत्र स्थित्वा राजा राजसभामगात्। अथ मञ्जूषातो निष्कासितं भट्ट सा प्राह- भो भट्ट ! स्त्रीचरित्रं भवद्वामपादाऽङ्गलिनखाऽग्रेऽस्ति तत्सर्वं दृष्टं न वेत्याकर्ण्य भट्टोऽपि तत्पादौ प्रणम्य प्रोचेहे देवि! वृथैवैतावान् गर्वो मया निर्ममे, अहं मूर्खस्त्वं च पण्डिता इतिभूयो भूयस्तामस्तवीत् । अथ तयोक्तं हितं वचः सर्वज्ञोक्तं च तत्त्वमादाय मुक्तविद्यागर्वः स भट्टः स्वं स्थानमगात् । सा राज्यपि सत्यं तद्भट्टचेष्टितं निवेद्य राजानं च श्रावकीकृत्य स्वमर्थमसाधयत् ॥ इति स्त्रीचरिते गुणावलीराज्ञीकथा ॥ ८८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.