________________
तरङ्ग ४/ कथा ८६/८७
११५ स च जैनमतमृणालिनीकुलमधुव्रतः स्वीकृतस्वदारसंतोषव्रतस्तया समं भोगान् बुभुजे। स चाऽन्यदा स्वगृहमागतां सकलसौभाग्यसङ्गतां तारुण्यहारिणी विविधशृङ्गारधारिणीं यथौचित्यन्यस्तसमस्ताऽऽभरणां स्मेरसरोरुहसमानकरचरणां चन्द्रमुखीनामस्वस्त्रीसखीं विलोक्य विस्मृतव्रतमर्यादः स्मराऽऽतुरस्तस्यां रागवानजनि। स्मरातुराणामुचितानुचिताऽविचारो हि न स्यात् । यतःकिमु कुवलयनेत्राः सन्ति नो नाकिनार्य-स्त्रिदशपतिरहल्यां तापसी यत्सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराऽग्ना-वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ? ॥ २॥
__ अथ तत्सङ्गमकर्मकर्मठमन्यमुपायमपश्यन् स स्वप्रियां प्रोचिवान्- हे सुभगे! यदि मम प्राणैः प्रयोजनं तदा चन्द्रमुखीं तव सखीं मम मेलयेति विवशं सम्प्राप्तस्मरान्त्यदशं स्वप्राणेशं विलोक्य साऽपि धीमती तदुक्तं प्रतिशुश्राव।
___अथ सा मिषाऽन्तरेण सखीगृहे गत्वा स्वप्रियविलोकनसमयविहितं तद्वेषं मार्गयित्वा गृहाऽऽगता पतिं प्रोचे- हे सुभग! सा सायमद्य समेष्यति, सोऽपि प्रपञ्चितस्फारशृङ्गारस्तदागतिं पश्यन्नेकान्ते तस्थौ। अथ सा धन्या विहितवयस्यावेषवचनविभ्रमविलासविनोदहावभावा, विध्यापितप्रदीपे शयनीयधाम्नि तेन समं रेमे। तस्यां गतायां सोऽपि पूरिततद्भोगाऽभिलाषः स्वस्थीभूतमनाः स्मृतस्वनियमो नियमभङ्गपापेन पीडितः प्राणत्यागपरायणो यावदासीत्, तावत् स्वीकृतस्ववेषा धन्याऽऽगत्य प्राह- हे नाथ! किमेतदिति? सोऽवोचत् खण्डितव्रतस्य मम किं जीवितेनेति तस्याऽऽग्रहं मत्वा सा सर्वं स्वसूत्रितमुक्तवती। तथाऽपि स हा मया पापमाचरितमिति वैराग्यवान् सप्रियः प्रव्रज्याऽऽलोचितदुरितकर्मा निर्वाणमासदत् ॥ इति प्रियया पति: पापाद्वारित इत्यर्थे कथा ॥ ८७ ॥
॥८८ ॥ स्त्रीचरित्रे गावली-कथा ॥ स्त्रीचरित्रज्ञाने समर्थं कौशलं केषामपि नाऽस्ति, यतः
.न सा कला न तद् ज्ञानं, न सा बुद्धिर्न तद्बलम् ।
ज्ञायते यद्वशाल्लोके, चरित्रं चलचक्षुषाम् ॥ १ ॥ विबुधानामपि स्त्रीचरित्रेष्वपाटवं, यतः
वामध्रुवामद्भुतकौशलानां, को वेत्ति धीमानपि चेष्टितानि? ।
यद्दर्शितोऽपि स्वकरेण राज्या, नाऽज्ञायि राज्ञा गृहगोऽपि भट्टः ॥ २ ॥ तथाहि- धनवासे नगरे महामिथ्यादृष्टेर्नगराजस्य राज्ञो जीवादितत्त्वज्ञाऽऽहती गुणावलीनाम्नी राज्ञी, तत्र चैकदा पञ्चशतच्छात्रपरिवृतः पञ्चशतवृषभवाहितपुस्तक: प्रभूताऽभिमानचिह्राङ्कशकुठारकुद्दालजालनिः श्रेणिच्छत्रचामरविहिताडम्बरः सर्वविद्याखर्वगर्वपर्वताऽधिरूढः करितुरगादिसमस्तसम्पत्तिधरो गदाधरो नाम भट्टः समेतः, तद्भक्तेन राज्ञाऽपि वस्त्राऽऽदिना स बहु सत्कारितः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org