________________
श्री कथारत्नाकरे
कार्पण्यं कुधियां पण्यं, विमुञ्च चतुराऽऽशय ! । अनर्था यद्वशाज्जाताः, सङ्कुलश्रेष्ठिनः पुरा ॥ ३ ॥
तथाहि— धारावासनगरे महेभ्यः सङ्कुलः श्रेष्ठी, परमत्यन्तबद्धमुष्टिः सोऽन्यदैकेन पुन्नाऽऽख्येन बटुना धनमर्थितः, कल्ये दास्ये इति वदन् प्रत्यहं याचमानं तं बटुं विप्रतारयामास। तदा च भृशं रुष्टः सोऽपि बटुर्भूरिभक्तितुष्टादेकस्माद्वटवासिनो देवात्[लब्ध]कामितरूपसिद्धिः पुरान्तरे गते तस्मिन् श्रेष्ठिनि तद्रूपमाधाय तद्गृहे प्राविशत् । प्राह च द्वारपालं अद्य पुरे भूरयो दाम्भिका रूपपरावृत्तिकारिणः समेताः सन्ति, तेन यदि मद्रूपवान् कोऽपि पुमान् समेति तदा स भृशं कुट्टनीय:, इति शिक्षां दत्त्वा तत्कामिनीस्तत्संपत्तिं च स स्वैरं बुभुजे । इतश्च ग्रामादागतो गृहं प्रविशन् सङ्कुलो द्वाःस्थेन पृष्टः कस्त्वमिति प्रोक्तश्चाऽहं गृहस्वामी सङ्कुलः इति वदन्तं मत्स्वामिकथितं सत्यमासीदिति लपन् स द्वाःस्थः - रे पाप ! त्वं कपटी मत्स्वामिरूपं कृत्वा गृहं प्रविशसीत्यभिधाय कामं कदर्थनापुरस्सरं हन्ति स्म । इत्यत्यर्थं कदर्थितः सङ्कुलोऽन्यमुपायमलभमानः स्वस्वामिनं कनकरथनामानं राजानं स्वं स्वरूपमभ्यधात् ।
राजाऽऽदिष्टेन शिष्टनाम्ना मन्त्रिणाऽऽकारितौ तौ द्वावपि परिषदं प्राप्तौ । मिथो विवदमानौ तौ विलोक्य सद्यः सञ्जातमतिना तेन मन्त्रिणा रहसि गृहव्यापारादिस्वरूपं पृष्टं तदा सङ्कुलो यथाऽवस्थितं स्पष्टमाचष्टे । तथैव रहसि पृष्टो दाम्भिकोऽपि यक्षप्रभावेण सङ्कुलवत्सर्वं गृहस्वरूपं जगौ । एवं तयोर्द्वयोर्भेदमलभमानेन मन्त्रिणा राजसमक्षं तौ द्वावप्येवमभिहितौ, यो झारिकामुखे प्रविश्य नालकेन, निर्याति स गृहस्वामीति कथिते शक्तेरभावात् सङ्कुलो विषण्णः । स च दम्भवान् द्रुतमेव मक्षिकारूपेण मन्त्रिणाऽभिहितं कुर्वन् मन्त्रिणा करेण धृत उक्तश्च त्वं कपटी, गृहस्वामी चाऽसौ । तदैव स निजं बटुरूपमाविष्कृत्य तदीयं स्वरूपं च प्रतिपाद्य सङ्कुलमुद्दिश्यैकं श्लोकमपाठीत्। यतः
दातव्यं भोक्तव्यं सति विभवे सञ्चयो न कर्त्तव्यः ॥
११४
यदि सञ्चयं करिष्यसि सङ्कुल ! पुनरागमिष्यामि ॥ ४ ॥
तदा राज्ञा मन्त्रिणा सभ्यैश्च प्रोचे, नैतस्य बटोरयं दोषः । ततस्तौ द्वावपि स्वं स्वं स्थानं जग्मतुः ॥ इति कार्पण्यविषये सङ्कुलकथा ॥ ८६ ॥
॥ ८७ ॥ प्रियया पतिः पापाद वारितः इत्यर्थे कथा ॥ काश्चित्कुरङ्गीदृशोऽपि निजजीवितेशं दुराचारान्निवारयन्ति, यतः - उत्पथं यान्तमात्मेशं धन्या रक्षन्ति सुभ्रुवः । यत्कृत्वाऽन्यवधूरूपं स्वप्रियोऽरक्षि धन्यया ॥ १ ॥ तथाहि - कनकपुरे पुरे धनद इव धनवान्, काम इव रूपवान्, बृहस्पतिरिव बुद्धिमान्, धनदत्तः श्रेष्ठी, तस्य च रूपलावण्यसौभाग्यसम्पत्पराभूतपुरुहूतनितम्बिनी धन्या नामनितम्बिनी ।
Jain Education International
श्री हेमविजयरचिते
For Private & Personal Use Only
www.jainelibrary.org.