________________
तरङ्ग ४/ कथा ९२/९३
१२१ तेनाऽत्रार्थे मा निर्बन्धं विधेहि, यदि च वारितोऽपि निर्बन्धं न जहासि, तदाऽद्य सायं मृतस्य वसुदत्तस्य विप्रस्य ज्वालनार्थं गतायास्तत्प्रियायाश्चरित्रं हरगृहे (श्मशाने) गत्वा निभालय।
__ गुरुणा वारितोऽपि हठतो नक्तं मृतकदाहो न स्यादिति हरौकसि पतिमस्तकमुत्सङ्गे निधाय स्थितायास्तस्या योषितश्चरित्रं राजा प्रच्छन्नस्थो द्रष्टुं लग्नः । अथ स्वैरिणीनां शिरोमणिः साऽपि तत्र स्थितेनैकेन मधुरस्वरगानपरेण पङ्गनरेण मोहिता सती तेन सह सम्भोगं व्यधात्। राजाऽपि तस्या एतद्धृशमनुचितं चरितं निरीक्ष्य धन्या गुरव इति ध्यायन्नुषसि गृहं ययौ। अथोदिते रवौ राज्ञा चितां प्रवेष्टुमुद्यतां 'नक्तं तच्चरित्रमधुना चैवं करोषि' इति कर्णे प्रविश्य उक्ता सा राजानं दूरीकृत्य लोकसमक्षमाह---भो लोकाः ! यदसौ कुमारपाल: परमाऽऽर्हतः परमधार्मिकश्च तन्मिथ्या, यत्कर्णे प्रविश्य मामिति वक्ति, हे सुन्दरि ! मा त्वमग्नौ प्रविश मदन्तःपुरमलङ्करु ! त्वामहमग्रमहिषीं करिष्ये, इति बाढस्वरेण जनानां पुरः प्रतिपाद्य सा चितां प्राविशत्। धिधिगिति लोकैर्निन्दितो अञ्जनदिग्धमिव निजं श्यामं मुखं पिधाय वज्राहत इव हृदि पीडितः पार्थिवो नगरान्तरागत्य सौधं प्रविष्टः।
ज्वलनोद्यतामिमां महासतीमसौ राजा भृशमनुचितमूचे इति चत्वराऽऽदिषु लोकैर्विधीयमानेयं वार्ता सलिले तैलबिन्दुरिव सकलेऽपि पुरे प्रथिता; अथैनमुदन्तमाकर्ण्य गुरवोऽपि सौधे गत्वा राजानमूचिरे, हे राजन् ! दृष्टं स्त्रीचरित्रम् ? इत्युक्ते राजोवाच- हे भगवन्! भवदाज्ञाभङ्गफलं लब्धम्, अथ सकलङ्कस्य मम किं प्राणैः? अतोऽनशनं कृत्वा प्राणांस्त्यक्षामीति वदन्तं तं गुरुराह- हे राजन्नलं खेदेन, पङ्गद्वारा कलङ्कमिमं निराकरिष्ये, इत्यभिधाय लोकसमक्षं पङ्गमाकार्य गुरुणा पृष्टः स रात्रिजातं तत्स्त्रीचरित्रं यथाजातं जगौ, लोकोऽपीति तदुक्तं निशम्य धिक् धिक् तां स्वैरिणीमिति तन्निन्दां विधाय राजानमस्तवीत् ॥ इति स्त्रीचरित्रे वसुदत्तविप्रप्रियाकथा ॥ ९२ ॥
॥९३ ॥ धूर्तचरित्रविषये धूसराऽऽभीरकथा ॥ धूर्तानां चरित्रं दुरवबोधं, यतः
मन्नेत्रयोस्त्वयाऽकारि, तुष्टिस्त्वत्कर्णयोर्मया ॥
आभीरेण नटोऽवञ्ची-त्युक्त्या धूर्ता हि दुष्कराः ॥ १ ॥ तथाहि- नागसारे नगरे बहव वल्लवा: वसन्ति । तत्र चैको महाधूर्तो धूसराह्वो वल्लवः । तत्रैकदा नटकलाकलापपेशल: पेशलो नाम नटराजो राजादिलोकानां पुरस्ताद्बहुभिर्वेषविशेषैनृत्यमतनोत् । तत्कलामालोक्य राजाऽऽदयो लोका वस्त्रधनकनकदानस्तं तोषयामासुः । अथ ते चाऽऽभीरा अपि गो-वृषभ-महिषीप्रमुखचतुष्पदप्रदानेन तं प्रीणयन्ति स्म। अथ तत्र स्थितः १. प्रविशितुम्-PBD ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org