________________
११२
श्री कथारत्नाको
श्री हेमविजयरचिते ॥८५ ॥ चरित्रेण कुलझानम् इत्यर्थं दुर्गन्धाराशीकथा ॥ येन तेनाऽपि प्रीतिकरणे विलम्बो वरं, न चौत्सुक्यं, यतः
जोई लीजइ जाति, वरिवरि सासउ पडिषिइ ।
पडइ पटोलइ भाति, फाटइ पण फीटइ नही ॥१॥ किंच अनभिजातो हि स्वचरित्रैरेव स्वकुलं व्यनक्ति, यतः
कुलं स्वकृत्यैरकुलप्रसूतः, सन्मानितोऽपि प्रकटीकरोति ।
श्रीश्रेणिकांसे निदधे यदंह्रि-र्दुर्गन्धया पण्यवधूद्भवत्वात् ॥ २ ॥ तथाहि-राजगृहे नगरे श्रेणिकः पार्थिवः एकदा तत्र समवसृतं भगवन्तं श्रीवीरं वन्दितुं सर्वर्द्धया गच्छन् स राजा दुर्गन्धपराभवाद्वस्त्राञ्चलैर्घाणानि पिदधानान् सैनिकानवलोक्य किमेतदिति कमपि स्वं सेवकमप्राक्षीत् । अस्य दुर्गन्धस्य निदानमध्वनि जातमात्रैका बालिका पतिताऽस्तीति तेनोक्ते पुद्गलानां परिणाम एष इति सुगन्धे दुर्गन्धे वा समानभावतः स नरकादागतं नारकमिव तथारूपां तां वर्त्मनि पतितां विलोक्य समवसरणे गत्वा श्रीवीरं प्रणम्य चाऽवसरे तस्याः प्राक्चरित्रमपृच्छत्।
___ भगवानभाणीत्-पर्यन्तदेशे शालिग्रामे धनमित्रस्य श्रेष्ठिनो धनश्री: सुता, एकदा ग्रीष्मौ तस्या विवाहे प्रारब्धे तस्यौकसि विहरणाय साधवः समेताः, तदा पित्रादिष्टा सा तान् प्रतिलाभयितुं ससज्ज । तदा चाऽप्रतिकर्मितशरीरिणां तेषां महात्मनां महामुनीनां स्वेदमलदुर्गन्धेन मोटितमुखकमला जातयौवना बाला सर्वाभरणशालिनी पट्टकुलमालिनी मनोहराऽङ्गरागताम्बूलहारिणी सर्वश्रीभृङ्गारधारिणी सा धनश्रीर्दध्यौ
अहो निष्पापे श्रीजिनमार्गे स्थिता अमी साधवो यदि प्रासुकेनापि वारिणा स्नान्ति तदा को दोष ? इति जुगुप्साभवं कर्माऽनालोच्य मृता साऽत्र राजगृहे गणिकोदरे सुतात्वेनोत्पन्ना, तेन दुष्कर्मणा च सा गर्भस्थितापि मातु शमरतिमकरोत्। तेन गर्भेणोद्विग्ना सा वेश्या गर्भपातनौषधानि विदधानाऽपि समये प्रसूतां तां दुर्गन्धां विष्टामिव बहिरत्यजत् । अथ काऽस्या गतिरिति पृष्टः प्रभुः प्राह- हे राजन्ननया स मुनिजुगुप्साभवकर्मविपाक: सर्वोऽपि भुक्तः ।
___ अथ सुपात्रदानोपार्जितभोगफलैषा मृगमद-कर्पूर-श्रीखण्डादिभ्योऽप्यधिकसुगन्धिशरीरा अष्टौ वर्षाणि तवाऽग्रमहिषी भविष्यति, तदभिज्ञानं चाऽक्षक्रीडायां जितस्य तव पृष्टेऽधिरोहणं सा विधास्यतीति निशम्य कथमेषा मम प्रिया भवितेति विस्मयं वहन राजा जिनं प्रणम्य गृहमगमत् । इतश्च निर्जरितदौर्गन्ध्यकर्मा साऽनपत्ययैकया गोपस्त्रिया गृहीता सुतेव पालिता क्रमेण यौवनं प्रपेदे। एकदा सम्प्राप्ते कौमुद्युत्सवे नगरोद्याने रममाणरमणीश्रेणिनिवर्णनाय गतोऽभयेन युतः श्रेणिकः१. अकुलीन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.