________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
॥ ८३ ॥ स्वार्थं विनाप्यनीतिकारिणां हंसकाकसाक्षिणां ग्राम्याणां कथा ॥ मुधैव परार्थं विनाशयन्ति ते पापीयस्तराः, यत :
एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये । सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । मी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये । ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे | १ | अपि च
११०
अल्पीयसे निजाऽर्थाय परार्थं घ्नन्ति पापिनः । काकाद्भीता हि काकाय ग्राम्या हंसीमदापयन् ॥ २॥ तथाहि-- अकरालो नाम मरालो मरालीयुतो मणिमण्डिते सरसि वसति । स चाऽन्यदा वर्षाssan कलुषं सरोनीरं मत्वा सस्त्रीको मानसं व्रजन्नन्तराले कटकुटे वटे विशश्राम |
तदा तद्वासिना काकेन स्वागतपूर्वं क्व यासीति पृष्टो हंसोऽभाषिष्ट, सर्वत्र कलुषितनीरं मर्त्यलोकं विहाय सदा स्वच्छाऽम्भसि देवसरसि गच्छन्नस्मीति तेनोक्ते काकः स्माह - हे पक्षिपुङ्गव ! सततं निर्मलजला प्रोत्फुल्लकमला मानसदुहितेवेयमिह वटनिकटवर्तिनी वापी वर्तते, तेनाऽस्मिन् वटे वसंस्तस्यां च वाप्यां क्रीडन् ससुखमिमं वर्षारात्रमिहैव तिष्ठ । हंसोऽपि तत्तथैव विदन् सुखं तत्र स्थित्वा वर्षाऽत्ययेऽन्यत्र व्रजन् वायसेनाऽभाणि - हे हंस ! यदि त्वं यासि तदा याहि परं मदीयामिमां रमणीयां रमणीमादाय कथं यासीत्युक्ते सोऽवक् - रे मूढ ! ममेयं मरालीमहिला, महिषविषाणैरिव घटितस्य कीलस्य तवेदृशी प्रिया कुतः ? 'हे हंस ! बलेन रक्षितो ममैवोपकारिणः प्रियापहाररूपमपकारं कथं करोषि ? किञ्च श्यामानां पतीनां गौराङ्गन्यः प्रणयिन्यः किं न स्युः ? मां मम प्रियतमां विमुच्य त्वं यथेच्छं याहि,' एवं विवदमानाभ्यां ताभ्यामभ्यर्णग्रामलोका SS प्रमाणमिति निर्णीतम् ।
तदा च केनाऽपि कपटेन तेन काकेनपुरतस्तत्र ग्रामे गत्वा ग्राम्या बभाषिरे - रे ग्राम्या! यदि हंसीं मम न दापयिष्यथ तदा भवतां डिम्भानां चतुष्पदानां च नेत्रकर्षणं करिष्ये, किंचाऽन्यमपि भूयांसमुपद्रवं विधास्ये, इति भीतैस्तैर्ग्राम्यैस्तद्वचने प्रतिपन्ने सति ते त्रयोऽपि तत्राऽऽगताः, तेषां पुरः स्वं स्वं दुःखमूचानयो [स्तयोर्हंसवायसयोर्वचांसि ] मिथो विमृश्य ते पापिनो ग्राम्या बभाषिरे, नारायणादीनामिव श्यामानां पतीनां कमलादय इव गौराङ्गयः प्रियाः सम्भवेयुः, इति इयं धवला हंसी काकस्याऽस्य पत्नीति तैर्दापितायां तस्यां त्रिष्वपि तेषु युगपद्रुदत्सु एक: प्रवया वायसस्तत्राऽऽगतोऽवदत्, स्वपतिविरहाऽऽतुराया हंस्याः, स्वपत्नीवियोगाऽऽर्तस्य हंसस्य च विलापः समञ्जसः परं हे काक! प्राप्तमरालिकस्त्वं कथं रोदिषीत्युक्ते सोऽवादीत्, इयं हंसी हंसस्य पत्नीति जानानैरमीभिः स्वार्थायाऽनीतिकारिभिर्यदसौ दापिता, तेनाऽमीषां पापवतां रोदिमीति तान् सर्वत्र विगोप्य [ हंसीं च हंसाय समर्पयामास, ततः ] ते सर्वेऽपि स्वं स्वं स्थानं जग्मुः ॥ इति स्वार्थं विनाप्यनीतिकारिणां हंसकाकसाक्षिणां ग्राम्याणां कथा ॥ ८३ ॥ १. श्यामस्य इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.