________________
तरङ्ग ४/ कथा ८१/८३
१०९ चिल्लणोद्याने, तया दर्शितेषु तेषु सोऽपि तत्र गत्वा दूरादेवावनामिन्या विद्यया निशि तान्याम्राणि जग्राह । प्रातः फलरहितं तमानं विलोक्य विषण्णया चिल्लणया विज्ञप्तः श्रेणिकस्तस्करगवेषणाऽर्थमभयमभ्यधात्, हे देव! तं तस्करं द्रुतमेवानयामीति प्रतिश्रुत्य प्रतिदिनं पुरान्तर्धमन्नभयो निश्येकत्र बहुद्यूतकारक-पारदारिक-तस्कर-मांसलुब्धकजनैः कारिते सङ्गीतके गत्वा नटाऽऽगमं यावत्तेषां विलोकयंस्तेषां पुरस्तादेकां कथां कथयति । तथाहि- वसन्तपुरे निर्धनस्य जीर्णश्रेष्ठिनो वृद्धकुमारी श्रीमतीनाम्नी सुता वरवरणार्थं चौर्येणानीतैः कुसुमैः सततं स्मरदेवमानर्च।।
___अन्यदा पुष्पचौरग्रहणार्थं रह:स्थितेनाऽऽरामिकेण पुष्पाण्याददाना सा गृहीता सम्भोगाय . चाऽभ्यर्थिताऽभ्यधात्- हे भद्र ! कुमार्यहं पुरुषस्पर्श नाऽर्हामि, तेनोक्तं यदि परिणीता सती प्रथमं मामेव समीहसे तदा त्वां मुञ्चामीति तदुक्तमङ्गीकृत्याऽऽगता परिणीता सा प्रथमेऽहनि रहसि स्वां प्रतिज्ञां तां स्वपतेरवादीत् । अहो सत्यसन्धा इयमिति पत्याऽनुमता मणि-मौक्तिककनका-ऽऽभरण-वरवस्त्रविभूषिता वेश्मतो व्रजन्ती सा पथि पारिपन्थिकै रुद्धा तान् स्वप्रतिज्ञा जगौ, तेन हे भ्रातरः! ततो निवृत्ताहं भवदभिहितं विधास्यामीति तैर्मुक्ता पुरो यान्ती सा क्षुधाक्षामोदरस्यैकस्य राक्षसस्य तथैव निवेद्योद्याने गत्वाऽहमागताऽस्मीति तमारामिकमाह । अहो इयं महासतीति मन्यमानेन तेन पुष्प-फल-पत्रादिभि: स्वसेव सन्मान्य विसृष्टा सा तत्रैव स्थितस्य राक्षसस्य तं मालिकव्यतिकरं यथाजातं जगौ ।
यदीमामद्मि तदा मालिकादपि मन्दसत्त्वोऽहमिति मत्वा मालिकेनेव रक्षसा विसृष्टा सा तद्वर्त्म पश्यतां तत्रैव तस्थुषां तेषां चौराणां मालिकराक्षसवृत्तान्तं वक्ति स्म । यद्यस्या भूषणादिकमादास्यामस्तदा मालिकराक्षसाभ्यामपि वयमधमा इति तैरपि सन्मान्य मुक्ता सा स्वपतेस्तेषां वृत्तान्तं निवेद्य सुखमनुभवन्ती स्वामिना गृहस्वामिनी चक्रे। अथ तान् जनानभयोऽभ्यधात्, पतिचौरराक्षसमालिकानां मध्ये को दुष्करकारकः? नवोढा स्वपत्न्यपि येनान्यपुरुषकृते प्रहिता, स तत्पतिदुष्करकारक इति कैरपीालभिः कथिते सति, क्षुधितेनापि येन सा न भक्षिता स राक्षस: सत्त्ववानिति कैरपि क्षुधातुरैरुक्ते सति, येन स्वयमागता निशि न भुक्ता स मालिकोऽधिक इति कैरपि जारैरभिहिते सति, यै रत्नाद्याभरणा सा नवोढा मुक्ता ते तस्कराः शूघ्या इति तेन चौरेणोदिते सति च तमेवाऽऽम्रचौरं विज्ञाय कथमाम्राणि त्वया गृहीतानीति तमभयोऽपृच्छत् । तेनापि ग्रहणोपाये प्रतिपादिते सति चौरोऽयमित्यभयेन राज्ञो ज्ञापितं, तद्वधमादिशन् कुपितः क्षमापतिर्मन्त्रिणा तद्विद्याग्रहणार्थं प्रेरितः, पुर:स्थितेन तेन पाठिते अप्यवनामन्युन्नामन्यौ विद्ये यदा सिंहासनस्थस्य राज्ञो मनसि न सङ्क्रान्ते, तदा कूटं पाठयसीति तं तर्जयन्तं राजानमभयः स्माह, हे स्वामिन्नेनं स्वस्थाने निवेश्य स्वयं च भूमौ स्थित्वा पठिते विद्ये फलदे भविष्यतो, नाऽन्यथेति । तदा तथैव विहिते सति ते विद्ये सम्यग् समायाते, ततो विद्यागुरुत्वेन मन्त्रिणा मोचितः सोऽपि स्वस्थानं ययौ। ॥ इति विनये श्रीश्रेणिककथा ॥८२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org