________________
१०८
श्री कथारनारे
श्री हेमविजयरचिते किंचाऽथ सम्यग् भगवदुक्तमाकर्ण्य स्वजनुः सफलं करोमीति ध्यात्वा रौहिणेयः श्रेणिकस्य पुरः स्वं नामवंशकर्मादि निवेद्य गिरिकन्दरादिषु निहितं पौराणां धनं दत्त्वा श्रीवीरान्तिके प्रव्रज्य च दिवं ययौ ॥इत्यर्हद्वचनाऽऽकर्णने रौहिणेयचौरकथा ॥८१ ॥
॥८२॥ विनये श्रीश्रेणिककथा ॥ सर्वेषां गुणानामास्पदं विनय एव, यत :
धिष्ण्यानां गगनं पयोनिधिरपामम्भोजबन्धुस्त्विषां । देवानां त्रिदिवं नृणां वसुमती विन्ध्याचलः कुम्भिनाम् ॥ आरामः पृथिवीरुहां कुमुदिनीप्रेयान् कलानां यथा ।
कासार: सरसीरुहां च विनयः स्थानं गुणानां तथा ॥ १॥ किञ्च विनयादेव देव-दानवादयस्तुष्टाः स्युः, यतः
विनय देव रंजिइ, विनय मानव रंजिइ । विनय स्वामि सुप्रसन्न, विनय पर संपत्ति खज्जइ ॥२॥ विनय नाग निरविस, विनय परदेसि न पिहडइ ।
विनय वइर वीसमइ, विनय को मित्र न विहडइ ॥३॥ गुणसार विनय लहि हीइ कहि, विणय अणाथि विहंडिइ ।
एरिसह विनय आठह पुहर, चतुर किम हि न वि छंडिइ ॥ ४ ॥ किञ्च विनयेनैवाऽदत्ता विद्या फलदा स्यात्, यतः
मातङ्गसूनोर्वरविष्टरस्थाद्विद्या गृहीता फलति स्म शीघ्रम् । श्रीश्रेणिकस्येह यथा तथा स्यात्, सप्रश्रयशास्त्रमधीतमृद्ध्यै ॥ ५ ॥
सिंहासणे निसण्णं, सोवागं सेणिओ नरवरिदो ।
विजं मग्गइ पयओ, इअ साहुजणस्स सुअविणओ ॥ ६ ॥ तथाहि- राजगृहे नगरे श्रीश्रेणिको नाम राजा, तेनाऽन्यदा स्वदेव्याश्चिल्लणाया विशेषतो मानमिच्छतैकस्तम्भप्रासादनिष्पादनार्थमादिष्टोऽभयो दारुग्रहणाय वने वार्धकिं प्राहिणोत्। तद्योग्यं काष्ठं विलोकयन् सोऽप्येकत्र लक्षणोपेतं महान्तमेकं तरुमालोक्येति दध्यौ, यदीदृशं स्थानं विनाऽधिष्ठायकं न स्यादिति । तदाराधनाय गन्धादिभिस्तमभ्यर्च्य कृतोपवासे तस्मिंस्तद्वासी देवः स्वस्थानभ्रंशभीरुरभयमेत्याऽभाणीत्, सर्वदा सर्व पुष्पफलशालिशालसुन्दरमेकस्तम्भं प्रासादमहमेव करिष्ये, तेन ममाऽऽस्पदच्छेदिनं वार्धकिं वनादाकारयेति । तेनोक्ते स्वं कृत्यं सिद्धमिति वदताऽभयेनाऽऽकारिते तस्मिन् सूत्रधारे, तेन सुरेण कृते तादृशे प्रासादे वसन्ती पुष्पफलादिभिः श्रेणिकेन समं रममाणा चिल्लणा सुखमनुभवति स्म । तदा तत्पुरवासी श्वपचपतिराम्रफलभक्षणे जातदोहदया प्रमदया तदाऽऽनयनार्थं भणितः, समयं विना तानि क्वइत्यवादीत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org