________________
१०७
तरङ्ग ४/ कथा ८०/८१ हा मयेदं बहु श्रुतमिति मां धिग् । कृतपठितविस्मारणोपायेनाऽप्यविस्मृतभगवद्वचसा तेन सदा बाढं मुषितै गरैर्विज्ञप्तेन राज्ञा दण्डपाशिक: साक्षेपमुक्तः स्माह- हे देव! मार्ग निरुध्य स्थितेष्वप्यस्मासु वायुरिव रौहिणेयस्तस्करो याति, तेन तं धर्तुमहं नाऽलम् । इति तेनोक्तेऽभयो मन्त्री तं दण्डपाशिकं प्रोचे-चतुरङ्गिण्या सेनया बहिस्तात् पिहितगोपुरं पुरं वेष्टयित्वा स्थितेन त्वया वप्रमुत्प्लवमानः स चौरो ग्राह्यः इति प्रेरितेन तेन नगररक्षकेण तदा च तेन तथैव स्थितेन पुरीरोधमजानानस्तथैव गच्छन् रौहिणेयो धृत्वा राज्ञोऽग्रे नीतः, निहन्यतामयं चौर इति राज्ञाऽऽदिष्टेऽभयः प्रोचे- हे स्वामिन्नलोप्तोऽयं न निग्रहमर्हति । तेन विचार्याऽस्य निग्रहः कर्त्तव्यः, कस्त्वमिति राज्ञोक्ते सोऽवोचत- हे देव ! शालिग्रामवासी दुर्गचण्डाह्वोऽहं कुटम्बिकः, कार्येणाऽत्राऽऽगतः पुरीरोधे सति भयभीरुरहं वप्रं लवयित्वा व्रजन्नारक्षकैभृतः, नाऽहं चौरो, निरपराधोऽस्मीति वादी स राज्ञा कारायां निक्षिप्य तत्र चरः प्रैषि, चरोऽपि तत्र गत्वा जनांस्तं वृत्तान्तं पृच्छति स्म । चौरेण पूर्वसङ्केतितैस्तद्ग्रामवासिभिः प्रोचे- यदत्र दुर्गचण्डो वसति, स च कार्येण ग्रामं गतोऽस्तीति। ततः समेत्य चरेणोक्तमाकर्ण्य दम्भविजृम्भितं दुस्तरमिति मन्यमानेनाऽभयेन विमानप्रतिमाने सप्तभूमिके सौधे देवीभिरिव रमणीयाभी रमणीभिः परिवृते पल्यङ्के पायितमद्यः परिधापितचीनांशुकः स शायितः क्रमेणोत्तीर्णमद्यस्तां दिव्यर्द्धिमवलोक्य विस्मितः सोऽभयाऽऽदिष्टैनरैर्जयजयनन्देति मङ्गलानि भणद्भिरभाणि-हे देव! अत्र विमाने त्वं सुरोऽभूरेते वयं च तव दासाः, एताश्चाऽप्सरसस्तव पत्न्यः, तेनाऽस्मानाऽदेशेनाऽनुग्रहाण, इमाभिरप्सरोभिः सह रमस्व । इदं सर्वं भवत: पुण्यैौकितं, यावत्ते सङ्गीतकं कुर्वन्ति, तावदेकेन सुवर्णदण्डभृता द्वा:स्थेनाऽऽगत्याऽभिदधे– देव ! प्रेक्षणकं पश्चादवलोकनीयमादौ स्वर्गस्थितिरियं विधीयतां, तथाहि
योऽत्र देवः सञ्जायते स चादौ प्राक्तने सुकृताऽसुकृते वदति, तदनु च भोगाननुभवति, तेन तथा कुरुष्वेत्यभिहितो रौहिणेयो दध्यौ, लोहखुरात्मजो रोहिणीप्रभवो रौहिणेय एवाहं, न चाऽहं मृतः, तेन नूनमभयेनाऽयं मां धर्तुं प्रपञ्चो रचितोऽस्तीति स्मृतपूर्वाऽऽकर्णितगाथाऽर्थेन महीमिलितचरणान् स्वेदमलिनकरणान् म्लानमाल्यान् सनिमेषेक्षणमालांस्तान् विलोक्य कपटोऽयमिति ज्ञात्वा प्रोचे-मया पूर्वस्मिन् जन्मनि सप्तक्षेत्र्यां धनमवापि, दान-शील-तपोभावरूपो धर्मो निरमायि, शत्रुञ्जयादिमहातीर्थयात्रा व्यधायीति वदन् स पुनस्तैरूचे, हे स्वामिन्निदं सत्यं, किन्तु चौर्यपारदारिकादि च स्वं दुश्चरित्रमपि कथय । स जगौ साधुसङ्गवता मया तच्चौर्यादि किमपि कृतं नास्तीति तदुक्तं ते मन्त्रिणो जगुः, ईदृशेनाऽपि दम्भेन यो न गृह्यते स चौरोऽपि मोचनीय इति नीतिपरेण मन्त्रिणा विज्ञप्तेन राज्ञा स मुमुचे । धिग् पितुरादेशं, येनेयन्तं कालं सुधापानादिव भगवद्वचनाद्वञ्चितोऽस्मि, येनेहां विनाप्येकशः श्रुतेन श्रीवीरवचनेन तरण्डेन समुद्रमिवाऽभयमन्त्रिमतिसरित्पतिमुत्तीर्णवानस्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org