________________
१०६
श्री कथारत्नाकरे
श्री हेमविजयरचिते अरे! मयि गोप्तरि कथमेनां हन्तुं त्वं प्रभविष्यसीत्युक्ते सिंहः स्माह दारुणाऽनेन शीतेनेयं गौरवश्यं मरिष्यति, सप्तदिनभवक्षुधया च मांसाऽशनलुब्धोऽहमपि मरिष्यामि । तेनेमां दत्त्वा मां जीवय! इत्थं च तव परोपकारित्वं समीचीनं भविष्यति ।
तत् श्रुत्वा राज्ञोक्तं- हे सिंह ! म्रियतां जीवतु वेयं गौः, परं तव न दास्ये, किं च यदि तवाऽऽमिषं विलोक्यते, तदेदं मद्वपुर्भवत्सादस्तीति वदन्तं तं सिंहः स्माह- हे भूप! त्वं पञ्चमो लोकपालः, तेन जीवन्नऽपि त्वं प्रजानां हितं करिष्यसि, अतो लोकान्तर्गमनतत्परां ममेमां गां दत्त्वा हितं कुरुष्वेत्युक्ते मत्कायेनैव तव हितं भूयादित्यभिधाय राज्ञा तस्मै स्वं वपुढौंकितम् । हन्तुमागते च तस्मिन्नधोमुखस्य राज्ञः शिरसि पुष्पवृष्टिरभूत् । तदा च राजा न तां गां, न च तं सिंहमपश्यत् । इतस्तत्र प्रकटित: स सुरोऽपि स्वं स्वरूपं निवेद्य राजानं च पुरे नीत्वा तिरोदधे। राजाऽपि प्रभाते विस्मितः सन् सचिवादीनां तद्वनवृत्तान्तं निवेद्य सुखमनुभवति स्म ॥ इति दयायां विक्रमादित्यकथा ॥८० ॥
॥८१ ॥अर्हद्वचनाऽऽकर्णने रौहिणेयचौरकथा॥ सम्यग्देवगुरुधर्मादिस्वरूपं जिनवचनविकला न विदन्ति । यतःन देवं नाऽदेवं न गुरुमकलङ्क न कुगुरुं । न धर्मं नाऽधर्मं न गुणपरिणद्धं न विगुणम् । न कृत्यं नाऽकृत्यं न हितमहितं नाऽपि निपुणं । विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥१॥
किं बहुना? स्वल्पमपि सर्वज्ञोदितमाकर्णितं सुखाय, यतःअर्हद्वाचां लवोऽपि स्यात् श्रुतो निर्वाणशर्मणे । रौहिणेयः सुखं नापद् गाथया हि किमेकया? ॥२॥
तथाहि- राजगृहे नगरे श्रीश्रेणिको नाम राजा, तस्याऽभयो मन्त्री, तत्र च सुमहत्तरे 'वैभारगिरिकन्दरे वसन् प्रान्तकाले लोहखुरेण पित्रा वीरवचः श्रवणे कारितनिषेधो रौहिणेयाऽभिधस्तस्करो राजगृहं स्वैरं मुमोष ।
एकदा चौर्यं विधाय स्वपुरमागच्छन् रौहिणेयोऽन्तराले भगवतः समवसरणं मत्वेति दध्यौ, अस्मिन् पथि गच्छतो मम वीरवाक्श्रवणेन पितुराज्ञाभङ्गः, किं चाऽन्यः कोऽपि पन्था नास्ति, तेन तस्मिन्नेव पथि पाणिभ्यां कर्णौ पिधाय गच्छतस्तस्य पादे कण्टको भग्नः, तदा चौत्सुक्येन पादात्कण्टकं निष्कासयितुं, कण्टके च सति क्रममपि चलितुमशक्तः स यावदेकेन पाणिना चरणात्कण्टकं निष्कासयति तावद्योजनविस्तारिणी सर्वजीवभाषानुकारिणी पञ्चत्रिंशद्गुण-हारिणी भागवती वाणी तस्य कर्णे न्यपतत् । यथा
अणिमिसनयणा मणकज्ज-साहणा पुप्फदामअमिलाणा ।
चउरंगुलेण भूमिं, न छिबंति सुरा जिणा बिंति ॥ ३ ॥ १. तुला - उपदेशप्रासादे व्या० ८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.