________________
तरङ्ग ४/ कथा ७९/८०
१०५
तेन च ये जीवन्तोऽपि मृतास्तेषामेकतमोऽस्मीति विषादवानभूत् । एकदा प्रावृषि काष्ठार्थं वने गच्छन् सरित्पूरे वहमानमेकं काष्ठखण्डमालोक्य कुठारेण छित्त्वा तत्खण्डभारं लात्वा पुरे प्रविशन् स सौगन्धिकेन जिनदासेन श्रावकेण विलोकितः, व्यवहारशुद्धिमता तेनेदं श्रीखण्डमित्यभिधाय दत्तं सहस्रसुवर्णमूल्यमादाय तस्याः सुरूपाया वेश्याया वेश्मनि गत्वा तद्गृहे वासार्थं तत्कनकं तस्यै ददौ ।
अथ धनलाभतो मुदिता सा स्नानविलेपनभूषणादिना तमलङ्कृत्य वातायने वासयित्वा स्वयं च शृङ्गारकरणार्थं ययौ । तत्र स्थितः सोऽपि तस्य मुनेर्वचसा पुष्पदन्तयोरुदयाऽस्तमनाभ्यां तां पूर्णिमायामिनीमवगम्य स्मृतस्वनियमस्तत्स्वधनं तदीयं च वस्त्रादि तत्र विमुच्य स्वकीयं वेषमादाय च देहचिन्तामिषेण ततो निर्गत्य क्वाऽपि हट्टे शेते स्म । तं च गतं ज्ञात्वा मा मां कोऽपि राजनरोऽन्यो वा कपटी कष्टे पातयत्विति सा वेश्या तदैव राज्ञोऽग्रे गत्वा तां किंवदन्तीं वदति स्म । अथोषसि हरिषेणेन राज्ञा सर्वेषु भारहारेषु मेलितेषु सुरूपयोपलक्षितः स तत्स्वरूपं पृष्टः सन् मुनिग्राहितनियमादारभ्य सर्वं वृत्तान्तमुदितवान् । तदाकर्ण्य राजाऽपि धन्योऽहं यस्य पुराऽन्तरीदृशो व्यवहारवान् वणिग् वसतीति तं जिनदासमाकार्य नगरश्रेष्ठिनं विधाय, बहुवित्तदानपुरस्सरं तां गणिकां च तस्मै करणकाष्ठहाराय ददौ । अहो ! नियमप्रभावोऽयमिति मन्यमानः करणोऽपि तया समं सुखमनुभवन् क्रमेण तत्र समागतस्य तस्यैव मुनेः समीपे प्रव्रज्य सिद्धः ॥ इति नियमनिर्वाहे करणाह्वभारवाहिककथा ॥ ७९ ॥
॥ ८० ॥ दयायां विक्रमादित्यकथा ॥
दया हि साक्षादमरगवी, यतः -
नानामौक्तिकहेमविद्रुममणिघूम्नाह्वयं गोमयं । दुग्धं दुग्धसमुद्रहारिलहरीशुभ्रं यशःसञ्चयम् । वत्सं विश्वजनेहनीयमहसं स्वर्गापवर्गोदयं । या देयादवतां दयाऽमरगवी सा रक्ष्यतामक्षयम् ॥ १॥ करुणां केsपि सत्पुरुषाः स्वदेहव्ययेनाऽपि पालयन्ति स्म । यतः - स्वदेहदानविधिना, परान् रक्षन्ति सत्तमाः । स्वाङ्गं दत्त्वापि सिंहस्य, विक्रमो गां ररक्ष यत् ॥ २ ॥ तथाहि - एकदा शीतत दुष्टेनाऽविनीतेन वाजिनाऽपहतो विक्रमादित्यो वने गतः, मृते च तस्मिन् वाजिनि राजा रात्रावेकस्य तरोस्तले सावधानतया तस्थौ । तदा च तद्वनवास्येको वटवासिदेवो विक्रमादित्योऽयं परदुःखकातर इति ख्यातिं वहन्नस्ति, तेनाऽस्य परीक्षां करोमीति दध्यौ । तदैव जरतीं भृशं कृशाङ्गीं शीतेन कम्पमानां तत्राऽऽगतामेकां गां राजाऽपश्यत् । अहो
शीयं वराकी गौरनेन शीतेन मरिष्यतीति ध्यात्वा स्वपटेन तां पिधाय, कृपाणपाणौ तस्मिन् राजनि तां गां रक्षति सत्येकः करालः केसरी तत्राऽऽययौ, तां चाऽऽहन्तुमुत्फालितं तं राजोचे१. तुला - सिंहासनबत्रीसी कथा २२ । मध्यकालीन गुजराती कथाकोश खण्ड १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org