________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
तयाऽभिहितं तिलमुष्ट्यभ्यधिकं मूल्यं दत्त्वा तिलमुष्टिं यच्छतस्तस्य करं सा जग्राह । जगाद च हे धूर्त ! शकटन्यायेन मणिबन्धतश्च्छित्त्वा तव पाणिमादास्ये । अथ तथा विवदमानौ तौ राज्ञः पुरो गतौ, राजाऽपि शकटन्यायेन मणिबन्धतः परः पाणिरस्या एवेत्यभिधाय तया मार्गितं धनं, पुरा गृहीतं च सवृषभं शकटं दापयित्वाऽहो धीमती बालिकेयमिति वसनादिना सत्कृता सा स्ववेश्मनि गता ॥ इति च्छले आभीरपुत्री - कथा ॥ ७८ ॥
१०४
॥ ७९ ॥ नियमनिवहि करणाह्न भारवाहक कथा ॥ ये स्वीकृतं नियमं न मुञ्चन्ति ते स्तवनीयाः, यतः -
अपि च
उदयं पद्मिनीबन्धोः, सीमानं च सरित्पतेः I जयन्ति नियमा येषां कुर्मस्तान् स्तवनाऽतिथीन् ॥ १ ॥
प्राप्याऽपि भोगसामग्रीं, सन्तः सीमां त्यजन्ति न । यथेन्दुं वीक्ष्य गणिका - ममुञ्चद्भारवाहिकः ॥ २ ॥
तथाहि— कनकावत्यां नगर्यां हरिषेणो नाम राजा, तत्र च करणाह्नः काष्ठभारवाहकः, स चैकदा काष्ठान्याहर्तुं वने गतः, तत्राऽशोकस्य तले मूर्तं धर्ममिव स्थितमेकं मुनिमालोक्याऽयं महात्मेति तदभ्यर्णं तस्थौ ।
परोपकारिणा तेन मुनिनोपदिष्टं शीलधर्मं सम्पूर्णमङ्गीकर्तुमसमर्थः स राकानिशि शीलं पालनीयमिति नियमं चिन्तामणिमिवादाय स्वपुरं प्रविष्टः, अन्यदा मध्यन्दिने काष्ठभारं लात्वा गच्छ्कस्यां सौधस्य भित्तौ भारं निधाय स्थितः । स तत्र वातायने तस्थुषीं कामकामिनीमिव सुरूपां सुरूपानामगणिकां विलोक्येति दध्यौ, अहो स्वोदरभरणेऽप्यक्षमः सर्वदा भारवाहकः स्त्रीमात्रसम्भोगरहितश्चाहमपि पुमान्, ये च लक्षम्भरयः सन्तोऽनया समं रमन्ते, तेऽपि पुमांसः, तेन सर्वदा धनस्थानसामग्रीरहितं मां धिग् । किञ्च -
नो धर्माय यतो न तत्र निरता नाऽर्थाय येनेदृशाः । कामोऽप्यर्थवतां भवेत्स च कुतो मोक्षः कुतः कस्यचित् । तत्के नाम वयं किमत्र घटिता ज्ञातं पुनः कारणं । जीवन्तोऽपि मृता इति प्रवदतां शब्दार्थसंसिद्धये ॥ ३ 11 [ जीवन्तोऽपि मृताः पञ्च, व्यासेन परिकीर्त्तिताः । दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥ ४ ॥]
१. वल्लव AH | २. श्रोको नास्ति DHA I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org