________________
तरङ्ग ४/ कथा ७६/७८
१०३ तेनाऽगुणिनां सङ्गमेन सतामुद्वेगः, यतः
हुं तुहि वारुं साधुजण, दुजणसंग निवार ।
हरइ घडी जल झल्लरी, मत्थइ पडइ प्रहार ॥२॥ नीचसरिस जु कीजइ संग, चढइ कलंक होइ जस भंग ।
हाथें अंगार ग्रहइ जो कोइ, कंइंदाझइ कंई कालो होइ ॥३॥ तेन कुमित्रसेवा सर्वथा त्याज्या, यतः
अकालचर्या विषमा च गोष्ठी, कुमित्रसेवा न कदाऽपि कार्या ।।
बाणाऽऽहतं पश्य मरालबालं, य कसङ्गान्निशि नीडसंस्थम् ॥ ४ ॥
तथाहि- केलितिलको नाम मरालो मानसं व्रजन् सायं घूकाऽऽग्रहेणैकस्मिन् वटे विश्रामं विधत्ते स्म । तदा च मित्राऽनुदयमीहमानेन प्रत्यक्षनिशाचरेणेव निशाऽटनेनाऽऽनीतं कीटकादिभोज्यं तेन समं प्रवृत्तिं विधाय च तेन दर्शिते नीडे स हंसः शेते स्म । अथ तस्यामेव निशि निशाटो दक्षिणतः शब्दायमानस्तत्र प्रदेशे गच्छतामध्वनिनामपशकुनं विधाय स्वयं वटकोटरे तस्थौ । अहो प्रस्थितानां नः प्रथमं वामेतर: काकारिध्वनिरशकुनमिति मन्यमानानां तेषामेकतमेन शब्दवेधिना पान्थेन मुक्तेन बाणेन तस्मिन् घूके कोटरान्तः प्रविष्टे सति तत्पङ्क्तिस्थनीडस्थितः स हंसो विद्धः ॥ इति कुमित्रसेवा विषमावस्थितिर्न कार्येत्यर्थे घूकहंसकथा ॥७७ ॥
॥७८ ॥छले आभीरपुत्री-कथा ॥ परवञ्चनार्थं विहिता माया स्वार्थमवश्यं विनाशयति, यतः
विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति ।
ते वञ्चयन्ते त्रिदिवापवर्ग-सुखान्महामोहसखाः स्वमेव ॥ १ ॥ इदृशेनापि च्छलेन याऽर्थसिद्धिः सा न धनबलादिना, यतः
छलेनापि निजं कार्यं, सृजन्ति कृतिनः खलु ।
गन्त्रीवैरं ललौ पुत्री, मुष्टितैलच्छलेन यत् ॥ २ ॥ तथाहि- भम्भलावासग्रामे फामणोनामाभीरः, तस्य च पूर्वपुण्यप्राग्भारप्रकटितप्रभूतधिषणा सिषणानाम पुत्री। स चैकदा काष्ठभृतं वरवृषभयुतं शकटमादाय समीपवर्तिनि नगरे काष्ठविक्रयाय ययौ । तथाऽवस्थया चतुष्पथे स्थितं तमेको धूर्तशिरोमणिः सोमणो नागरिक: किमस्य शकटस्य मूल्यमित्यप्राक्षीत् । मूर्खेण तेन तस्य शकटस्य यन्मूल्यमभ्यधायि। पौरान् साक्षिणो विधाय तन्मूल्यं वितीर्य च सकाष्ठवृषभे शकटे तेन रक्षिते सति विक्षापन्न: फामणो गृहमागतः पुत्रीपुरो यथाजातं वृत्तान्तमुदितवांश्च । हे तात ! धीरो भवेत्यभिधाय तथैव शकटमादाय चतुष्पथे स्थितां तां स एव धूर्तस्तथैवाऽपृच्छत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org