________________
तरङ्ग ३ / कथा ७२/७४
९९
तथाहि-धारानगरनिकटवर्त्तिनि शङ्कुरणाग्रामे महीधरविप्रस्य पुरुषोत्तमनामा पुत्रो महाकविरपि स च पूर्वकर्मवशेन द्यूतादिव्यसनी, प्रकामं प्रियया रतिसुन्दरीसंज्ञया वेश्यया प्रहितश्चौर्यार्थं निशीथे भोजराजसौधे प्रविश्य श्रीभोजं जाग्रन्तं विभाव्य पर्यङ्काधो निलीय तस्थौ । तदा च जातप्रमौलान्तः स्वसम्पदुत्कर्षहर्षप्रकर्षमनाः सुमनाः श्रीभोजराज इति पदत्रयं चकार,
यतः -
चेतोहरा युवतयः स्वजनोऽनुकूलः । सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः।
गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः।
पुनः पुनरिदं पदत्रयं पठन् शयने चेतस्ततो लुठन् यावदिति स्वसम्पदि प्रकामोत्कर्षवान् भोजभूमिनाथ आसीत्, तावत्पर्यङ्काधःस्थः स दध्यौ, राजा मां मारयतु मुञ्चतु वा, परमवसरो गतो नैष्यतीति राज्ञस्तस्मिन् दर्पसर्पे मन्त्राक्षरमिव सोऽग्रेतनं चतुर्थं चरणमभाणीत् । 'सम्मीलने नयनयोर्न हि किंचिदस्ति ॥ १ ॥'
श्रुतेनानेन पदेन भुजङ्गमदर्शनेन प्रदीप इवोपशान्तगर्वो भोजो बभाण कस्त्वमिति, सोऽप्यात्मनः सर्वं व्यतिकरं व्याकरोत् ।
अथ भोजोऽभ्यधात्, हे पुरुषोत्तम ! वैदग्ध्येतरः कोऽयं तव व्यापारः ? हे देव ! नातः परमहमिदमनुचितं विधास्ये, इति वदता तेन सह शास्त्रविनोदैः शेषां शर्वरीं गमयित्वा प्रभाते श्रीभोजः स्वकृतं पदत्रयं तत्कृतं चैकं पदं स्वपण्डितानां निवेद्य वसन्ततिलकाछन्द:पदवर्णप्रमितत्वेन चतुर्दशलक्षसुवर्णदानपुरस्सरं वस्त्रादिना सत्कृत्य पुरुषोत्तमं स्वपुराय प्राहिणोत् । सोऽपि तेषां सभासदां समक्षं निषिद्धव्यसनदोषः स्ववेश्मन्येति ॥ इत्यवसर - वचने दाने च पुरुषोत्तमविप्र श्रीभोजकथा ॥ ७३ ॥
॥ ७४ ॥ मायया स्वकार्यकरणे काकीकथा ॥ माया हि विश्वाससौहार्दाऽऽदिबुहुगुणानां नाशं करोति, यतः - विश्रम्भं भुजगीव जीविततनुं व्याहन्ति या देहिनां या सौहार्दमपाकरोति शुचितां स्पर्शोऽशुचीनामिव ॥ या कौटिल्यकलां कलामिव विधोः पुष्णाति पक्षः सितस्तां निर्मोकमिवोरगो हि विबुधो मायां न को मुञ्चति ? ॥ १ ॥ किञ्च मायावन्तो महान्तोऽप्यसेवनीयाः स्युः, यतः -
उमाया इव मायायाः, सम्पर्कं मुञ्च मुञ्च रे । ईश्वरोऽपि नरो नूनं, यत्सङ्गाद्भीमतां भजेत् ॥ २ ॥
१. तुला - भोजप्रबन्धे अधिकारः ४ ॥ ARB | शङ्करग्रा मु. ॥। २. प्रमीला - तन्द्रा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org