________________
९८ श्री कथारत्नाकरे
श्री हेमविजयरचिते उंमया सहितः शम्भुः शर्वरीकरभूषणः ॥
रक्षां करोतु वः कुर्वन् टणत्कारकरं यशः ॥ ४ ॥ इत्यर्थचातुरीतो महान् पण्डितोऽयमिति जानता राज्ञा दत्तां तां पुत्रीं स शुभेऽहनि महोत्सवैः परिणीतवान् । परिणीता च सा पतिवैश्यजिज्ञासया तस्मै शोधनोपकरणयुतं शोधनार्थमेकं लिखितं पत्रं दासीकरण प्रजिघाय। मूर्खशेखरः सोऽपि मात्रादिभिस्तरेखा विषमाः प्रेक्ष्य, स्मृतपूर्वाऽऽचरितसीर-सीतारेखाकारो हरितालेन दूरीकृतबिन्दुमात्रं तत्पत्रं तयैव दास्या सह प्रेषयति स्म। साऽपि तत्पत्रं तादृशं विलोक्यातिमात्रमातृमुखमुख्योऽयं मम मूर्द्धनि भग्नः, अथ कथमनेन सहाऽहं गृहमेधितां पालयिष्यामि? यतः
सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति साधवः ।
सकृत्कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ॥ ५ ॥ एकदा किञ्जातीयोऽयमिति जिज्ञासया चित्रितविविधचित्रे सौधमध्ये तमेकाकिनमासयित्वा विषादवती सा मक्षिकेव भित्त्यन्तरे तस्थौ। तानि चित्राणि पश्यन्नेकत्र विविधवर्णाश्चित्रिता अजाश्चरन्तीरचित्रिता इव निभाल्य स्मृतात्मगलस्तनीवर्गः सोऽपि पूर्वाभ्यासवशात्ताः प्रत्येकं नामग्राहमाजुहाव । तं च तथा ब्रुवाणं विभाव्य वल्लवोऽयमिति तया निषिद्धाऽऽवासप्रवेशो बालिशोऽहमित्यनया प्रियया त्यक्त इति खेदात्कालीदेवीसंज्ञायाः सरस्वत्याः प्रासादं प्रविश्य पाषाणपाणिः स इति जगौ, हे देवि ! आदौ भवतीं पश्चादात्मानमनेन पाषाणेन खण्डश: करिष्ये, न चेन्मम विद्यादायिनी भवेति वदतस्तस्य भाग्यप्राग्भारैस्तुष्टया तया देव्या मम तव च वचसि न भेद इति दत्तवरो अन्त:समागतभारतीप्रसादतेजा: स सौधाऽधस्ताद् गच्छन् गवाक्षस्थया कालीसरस्वत्याऽभाणि, हे नाथ ! अस्ति कश्चिद्वाग्विलासः, इति निशम्य सोऽपि तत्रस्थित एव वाग्देवीवरेण अस्तीत्यनुसारेण 'अस्त्युत्तरस्या'मिति कुमारसम्भवनामकाव्यं, कश्चिदित्यनुसारेण 'कश्चित्कान्तेति मेघदूतनामकाव्यं, वागित्यनुसारेण 'वागर्थाविवे'ति रघुवंशनामकाव्यं, विलास इत्यनुसारेण 'विलासवचसां बीज'मिति षड्ऋतुवर्णनं नाम ऋतुविलास ( संहार) काव्यं चेति महाकाव्यचतुष्टयं विधाय कालिदासोऽहमिति स्वं नाम प्रथयन कालिदासो महाकविरजनि ॥ इति भाग्ये महाकविकालिदासकथा ॥७२॥
॥७३ ॥ अवसरवचने दाने च पुरुषोत्तमविप्र-श्रीभोजकथा ॥ विरुद्धाचारवतामपि कवीनां वचनैः सन्तुष्टा दातारस्तेषां किं किं न यच्छन्ति ? यतःयच्छन्ति हष्टहृदया न हि किं वदान्या, लक्षाश्चतुर्दश विशारदतस्कराय ।
सम्मीलने नयनयोन हि किञ्चिदस्ती-त्युक्त्वा प्रहृष्टवदनो विततार भोजः ॥ १ ॥ १. उमया सहितो रुद्रः, शङ्करः शूलपाणियुक् । रक्षतु तव राजेन्द्र !, टणत्कारकरं यशः ॥ १॥ इति विक्रमचरिते शुभशीलगणिरचिते ॥ २. सीर-हल, सीता-हलरेखा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.