________________
तरङ्ग ३/ कथा ७१/७२ ॥७२ ॥ भाग्ये महाकविकालिदासकथा ॥ भाग्यभाजां हि सर्वमसम्भाव्यमपि भवति, यतः
भाग्यात्सम्पद्यते पुंसा-मसम्भाव्यमपि 'क्षितौ । तेरुर्मेरुसमाः शैलाः किं न रामस्य वारिधौ ? ॥ १ ॥ यद्रामो घटयाम्बभूव जलधौ सेतुं धरित्रीधरैर्यत्कुम्भप्रभवश्चकार चुलुकं चैकं पतिं पाथसाम्। यत्पुष्पैर्जितवान् जगत्त्रयमसौ सङ्कल्पयोनिः क्षणा
द्विद्मः सुन्दरि ! विश्वविस्मयकरं तद्भाग्यविस्फूर्जितम् ॥ २ ॥ अपि च
तद्भवेद्भाग्यतः पुंसां, यच्च वाचामगोचरम् ।
येनाऽऽभीरतनूजोऽपि, कालिदासोऽभवत्कविः ॥ ३ ॥ तथाहि- धारानगर्यां श्रीभोजराजस्य व्याकरणादिसमस्तशास्त्रनिपुणा प्रत्यक्षा सरस्वतीव कालीसरस्वतीनाम सुता, सा चैकदा गवाक्षस्थिताऽधस्ताद् गच्छन्तं माघपण्डितं प्रोचे, हे तात! पक्वान्याम्राणि गृहाण! तेनाऽप्युत्तरीयाऽञ्चले मण्डिते सति, शीतान्यशीतानि वाऽऽम्राणि यच्छामीति वादिनीं सोऽवोचत् । हे पुत्रि ! शीतानि बहूनि बहुशो भुक्तानि, तेनाऽद्याऽशीतानि देहीति कथिते तया भूमौ निक्षिप्तान्याऽऽम्राणि रेणुभिर्दिग्धत्वेन फूत्कृत्याददानं माघ साऽवक्, हे तात ! किमाऽऽम्राणि भृशमुष्णानि? येन भूयोभूय: फूत्करोषीति हसितो माघो दध्यौ, यदहं गुरुरप्यनया हसितस्तदस्या निरक्षरेण वरेण संयोगं जनयिष्यामीति ध्यात्वा स स्वधाम जगाम ।
अथैकदा राजपुत्रं वणिक्पुत्रं वल्लवपुत्रं वा पण्डितं पुत्रीकृते वरमानयेति भोजेनोक्तो माघो बहुमूर्खे मरुदेशे भ्रमन् सीरसरग्रामाऽभ्यर्णे पिप्पलस्य शाखायामपरभागे स्थित्वा मूलतच्छिन्दन्तमेकमाभीरमालोक्येति जगौ- हे भद्र ! कृत्तायां शाखायामधः पतिष्यसीति तस्मिन्नभिदधति सति तथैव पतितः स माघं प्राह, हे विप्र ! तव ज्ञानं सत्यम्, माघो ध्यातवान्, यद्यसौ वरस्तस्याः स्यात् तदा मम हास्यफलं सा लभेतेति माघस्तमादाय गृहमागत्य च षण्मासी यावद्रहोदेशे तमाशीर्वादमध्यापयति स्म ।
षण्मासाऽन्ते विप्रो वरः समानीतोऽस्तीति राज्ञो निवेद्य कारितविप्रवेषं भृशमांसलं तं राजसभां नीत्वा भूपायाऽऽशीर्वादं वदेति माघेनोक्तः सभ्यानां क्षोभमसहमानो विस्मृतपूर्वाधीतपदः स आशीर्वादस्थाने 'उशरट' इति जगौ । कोऽयमाशीर्वाद? इति राज्ञोक्ते माघ: स्माऽऽह हे! स्वामिन्नस्याऽऽशीर्वादस्यायमर्थ:१. B | क्षणात् -R || २. तुला- प्रबन्धचिन्तामणौ विक्रमार्कप्रबन्धे ॥ ३. HRB | द्विजपुत्रं-मु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org