________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते सा स्वाऽऽस्पदमासदत् । सोऽपि तेन कनकेन जिनचैत्यादिषु महोत्सवकरणेन कृतसुकृतः स्वार्थमसाधयत् ॥ इति भाग्योपरि गजराजवणिक्कथा ॥७० ॥
॥७१ ॥ भाग्ये राङ्काशेष्ठिकथा ॥ समानेऽप्युद्यमे भाग्यमेव फलदं, यतःउद्यमं कुर्वतां पुंसां, भाग्यं सर्वत्र कारणम् । समुद्रमथनाल्लेभे, हरिर्लक्ष्मी हरो विषम् ॥१॥
किं च येन केनापि सञ्चिता सम्पत्तिर्भाग्यवतामेव भोगाय जायते, यतःकीटिकासञ्चितं धान्यं, मक्षिकासञ्चितं मधु । कृपणैः सञ्चितं वित्त-मन्यैरेवोपभुज्यते॥२॥ अपि च
भोग्या भाग्यवतां सम्पद्, भृङ्गाणामिव पद्मिनी ।
जट्याऽऽनीतरसं प्राप, यतो राङ्काऽभिधो वणिक् ॥ ३ ॥ तथाहि- धन्यपुरे पुरे शिवशर्मनामा जटी, तस्य चेति पारम्पर्येणाऽऽगतो रसकल्पोऽस्ति, तथाहि- पुण्याकरे पर्वते पूर्वस्यां दिश्येका गुहाऽस्ति, तस्या मुख-मध्य-पर्यन्तेषु चोपवासत्रयकरणेन तत्र रसकूपिका प्राप्यते । तुम्बिकागृहीतस्य तस्य रसस्यैकेन बिन्दुना क्षिप्तेन तप्तो लोहभारो जात्यं जातरूपं स्यादिति । अन्येारनेन कल्पोक्तेन विधिना तैलपक्कमहिषीपुच्छप्रदीपेन दृष्टवा शिवशर्मा तस्याः कूपिकायास्तुम्बिकायां रसमाददानो रसमध्यात् 'भर राङ्काने नामें' इति निर्गतं शब्दमशृणोत् । किं मम भाग्येऽसौ रसो लिखितो नास्तीति मत्वा तेन स रसस्तत्रैव निक्षिप्तः, क्षणं विहितविलम्बः पुनरपि रसमाददानः स तथैव शब्दं शुश्राव । एवं च सप्तशस्तदेव शब्दं श्रुत्वा स पुनस्तत्रैव रसं निचिक्षेप । अथ च वस्तुनः स्वभावोऽयमिति मत्वा तुम्बिकायां रसमादाय स्वपुरमागच्छन् स वर्त्मनि प्राप्ते वल्लभीग्रामे कस्यापि वणिजो गृहे तुम्बिकां विमुच्य प्रभासतीर्थे यात्रां कर्तुं गतवान् । तेन वणिजाऽपि चुल्लिकोपरि तुम्बिकायां निबद्धायां अधस्तान्निर्गतधूमेन तप्ततुम्बिकातः पतितेनैकेन रसबिन्दुनाधस्तात्स्थितचुल्लिकोपरिस्थितं लोहतप्तिकापात्रं कनकमयं जातं विलोक्य स वणिग् दध्यौ-नूनं तुम्बिकाऽन्तः सिद्धरसोऽस्ति ।
इति मत्वा स्वं गृहं भस्मसाद्विधाय तुम्बिकां चादायान्यस्मिन् गृहे तस्थुषि तस्मिन् वणिजि गृहे समेतः स जटी तस्य गृहं तत्राऽपश्यन् जनैर्दर्शिते तस्य वणिजो धाम समेत्य तुम्बिकां ययाचे। गृहे दग्धे ते तुम्बिकाऽपि दग्धेति तेनाऽभिहितं निशम्य स जटी वणिजमभाणीत्- हे श्रेष्ठिन् ! किं तव नाम? राङ्काऽऽख्योऽहमिति तेन वणिजा निगदितमाकर्ण्य रसतो निर्गतो ध्वनिः समीचीनोऽजनीति मत्वा राङ्काऽऽख्यस्य तं सर्वं वृत्तान्तं निवेद्य तेन सत्कृतः स जटी स्वपुरमगात् । राङ्काऽऽख्यः श्रेष्ठ्यपि रसनिष्पन्नं कनकं सप्तक्षेत्र्यामुप्त्वा सद्गतिमीयिवान् ॥ इति भाग्ये राङ्काख्यश्रेष्ठिकथा ॥ ७१ ॥ १. AHR पुण्याकरे । २. AHR भरि राङ्काने नामि । ३. AHR पुनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.