________________
तरङ्ग ३ / कथा ६९/७०
९५
नृत्यावस्तत्समञ्जसं, परं हे नाथ ! कथं त्वं नृत्यसीत्युक्तो योगी जगौ, हे वेश्ये! मयैषा मतिर्नावलब्धेति नृत्यामि । गङ्गदत्तोऽपि महोपकारित्वेन स्मरसुन्दरीं बहुसत्कारभाजनं निर्माय स्वं धाम जगाम ॥ इति मतौ स्मरसुन्दरीपण्यसुन्दरीकथा ॥ ६९ ॥
॥ ७० ॥ भाग्योपरि गजराजवणिक्कथा ॥
विषममपि कर्म कुर्वतां भाग्यवतां स्वार्थसिद्धिः यतः -
गहनवनमगारं शस्त्रमम्भोजपुञ्जं, विषममृतं फणीन्द्रो माल्यमब्धिः स्थलं च । हुतवहततिरापः केसरी सारमेयः, प्रधनमनघकेलिर्जायते भाग्यभाजाम् ॥ १ ॥ भाग्यादेव सर्वं समञ्जसं, यत :
विरुद्धं सृजतां पुसां, भाग्याद्भवति शोभनम् ।
प्रस्फोटयन् शिरः प्राप, स्वर्णसिद्धिं यथा वणिक् ॥ २ ॥
तथाहि - गजपुरे पुरे गजराजो वणिक्, लोभाऽभिभूतो स च धातुर्वादेन सर्वं धनं निधनं नीत्वा सुवर्णसिद्धिमीहमान: स्वपुरान्निर्गत्य भुवि भ्रमन् भूमिभूषणे पुरे सुवर्णसिद्धया प्रसिद्धामेकां मदनमञ्जरीगणिकामाकर्ण्य तद्गृहकर्माणि कुर्वंस्तस्याः किङ्करत्वं करोति । सा तुकस्यापि विश्वासमकुर्वाणा तस्य परदेशिनस्तु विशेषतो विश्वासं न विदधे । गजराजोऽपि सुवर्णसिद्धिमिच्छुर्विशेषतो विनयप्रतिपत्तिपरो भवंस्तां तथा वशीचकार, यथा शनैः शनैः सा किमपि तस्य विश्रम्भं व्यधात् ।
तथाऽपि सम्पूर्णं विश्वासमकुर्वाणां तां मत्वा सोऽन्येद्युस्तत्परिजनं जगौ यदहमद्य भित्तिं न पश्यामि, स्तंभं न पश्यामि, द्वारं न पश्यामि कस्याऽपि मुखं न पश्यामि, स्वं पाणिं चाऽपि न पश्यामीति वदन् गजराजो दम्भेन क्रमात्तथाविधां चेष्टां चकार, यथा सा तत्परिजनश्च स्तम्भभित्त्यादौ हन्यमानं तं प्रकाममन्धमज्ञासीत् । अन्धत्वाद्विश्वस्तः सोऽपि क्रमेण सुवर्णसिद्धिकारण्यौषधानि तद्विधिं च विवेद । माऽसौ पश्यन् भूयादिति धूर्त्तया तया भोक्तुमुपविष्टस्य तस्य स्थाले पुरीषे मुक्ते सति मा पश्यन्तं मामियं जानात्विति व्यंसकविशेषकः सोऽपि सुखभक्षिकायामिव तस्मिन् पुरीषे दक्षिणं पाणिमक्षिपत् । तथा कुर्वन्नसावन्ध इति तया विश्वस्तः, एवं तद्विधिं सर्वं सम्यगवगम्य स स्वपुरमागतस्तेनैव विधिना सुवर्णं कुर्वाणः सुवर्णमपूर्णनिष्पन्नं निध्यायाऽहो ! मे मन्दभाग्यमिति खेदात्पाषाणेनाऽऽ स्फालिताद्भालात्सुवर्णरसोपरि निपतितेन शोणितबिन्दुना सम्पूर्णं सुवर्णं जातं निरीक्ष्य स दध्यौ, अहो अस्मिन् कर्मणि कर्त्रा स्वरुधिरेण बलिः करणीयः, स त्वधुना मम स्वभावपतितेन रुधिरेणाजनीति । अथ तथैव सुवर्णं कुर्वाणं तमाकर्ण्य सा वेश्या दध्यौ, अहो तेन व्यंसकेन मुषिताहं, किं च गुरुभागो मया रक्षितोऽस्ति, तेन विना च स कथं कनकं कुर्वन्नस्तीति ध्यात्वा तत्र समेतायास्तस्याः सर्वं स्वविहितं निवेद्य, गुरुत्वेन तेन सत्कृता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org