________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते किं बहुना? सर्वत्र मतिरेव वरीयसी, यतः
योग्याऽऽदत्तानि यत्पण्य-वधूः पञ्चाऽप्यदापयत् ।
बुद्ध्या द्विजाय रत्नानि, तदहो बुद्धिरुत्तमा ॥ ३ ॥ तथाहि-आसापाटकवासी गङ्गदत्तो द्विजो रोहणाचलतः पञ्च रत्नान्यादाय स्वपुरमागच्छन्नन्तराले दम्भपुरं पुरं प्राप्येति दध्यौ, यदेतानि रत्नानि कस्याप्योकसि विमुच्य तुङ्गगिरिशृङ्गस्थितबलदेवमूर्तिं प्रणम्य क्षेमेण गृहं यामीति मत्वा कस्याऽपि वणिजो हट्टे तस्मिन् स्थिते कापि दासी घृतार्थमागता, तेनापि वणिजा परदेशिनस्तस्य विश्वासार्थमधिकं दत्तं घृतमादाय गेहमागतां तां तत्स्वामिनी स्माऽऽह, हे पुत्रि! येनाऽधिकं घृतमदायि, तेन नूनं तस्य हट्टे कोऽपि परदेशी स्थितोऽस्ति ।
तेन अधिकं घृतं वयं नाऽऽदास्याम इत्यभिधाय घृतमिदमधिकं प्रत्यर्पयेत्युक्तया तया तस्मिंस्तस्थुष्येव प्रत्यर्पितं घृतं विलोक्यैतस्या व्यवहारशुद्धिरस्ति, अतोऽस्या गेहे रत्नानि मुञ्चामीति विचार्य तत्पृष्ठलग्नो गङ्गदत्तस्तदगारमाजगाम । तत्र तस्मिन् स्थिते भिक्षार्थमागतायैकस्य योगिनः शिष्याय तया तद्विश्वासाय भूयसी भिक्षा दत्ता। शिष्येणाऽऽनीतामधिकां भिक्षामुदीक्ष्य गुरुर्दध्यौ, ध्रुवं तदोकसि कोऽपि परदेशी स्थितोऽस्ति, तेनाऽधिकां भिक्षां वयं नाऽऽदास्याम इत्युदीर्य प्रत्यर्पितां भिक्षां विलोक्य भोज्येऽपि निरीहस्य अस्य योगिनो धामनि रत्नानि मुञ्चामीति मत्वा तत्र च गत्वा, मुधैव न नेति वदतोऽप्यस्य योगिनो बलेन रत्नानि दत्त्वा यात्रां च कृत्वा समेतो योगिनं रत्नानि ययाचे । कोऽहं ? कस्त्वं? कानि रत्नानि? इति जल्पता योगिना निराकृतः स मुषितोऽहं मुषितोऽहमिति ब्रुवाणः पुरान्तर्धमन् रत्नाऽऽदानप्रज्ञापटीयसी स्मरसुन्दरी नाम पण्यसुन्दरीं श्रुत्वा तदाऽऽवासं ययौ । तदुक्तं स्वमसुखं निशम्य परवञ्चनचतुरा सा तमभाणीत्, हे सुभग ! योगिमठिकायां स्थितायां मयि त्वया स्वानि रत्नानि मार्गणीयानीति तमनुशिष्य कर्करकपूरितं दत्ततालकं भृशं शोभनं च पेटीपञ्चकमादाय स्वीकृतकुलकामिनीवरनेपथ्या सा तत्र गत्वा योगिनं जगौ, हे नाथ! मदीयानि प्रवहणानि पयोनिधौ भग्नानीति वार्ताऽद्य समागता, किञ्च भूरिभिरधमणैरिदं मम सर्वं धनमादास्यते, तेन कियद्वासराणीदं मम पेटीपञ्चकं स्वमठिकायां निधीयतामिति वार्ती विदधत्यामेव तस्यां पूर्वसङ्केतितः स द्विजोऽप्यागत्य रत्नानि ययाचे ।
योगिना चिन्तितमविश्वासेनेयमिदं घनं धनमादाय पश्चान्मा यात्विति धिया तेन योगिनाऽपि सत्वरमेव तस्मै रत्नानि दत्तानि, तदैव पूर्वसङ्केतितका तदीया दासी तत्राऽऽगत्य तामिति भणति स्म- हे स्वामिनि ! आत्मनां वाहनानि कुशलेनाऽधुना समागतानि, तदाकर्ण्य सा ननर्त, तां नृत्यन्तीं विलोक्य गङ्गदत्तोऽपि नृत्यति स्म। तदा स्मिताऽऽननं तं योगिनमपि नृत्यन्तं निर्वर्ण्य सा वरवर्णिनी बभाण, वाहनानामागमनादहं, रत्नानां लाभाच्चाऽयं, [इति] यदावां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.