________________
तरङ्ग ३ / कथा ६८/६९
तदसत्यादेव गुणानां नाशः स्यात्, यतः
कीर्तौ कज्जलकूर्चकं हलमुखं विश्वासविश्वातले । नानाऽनर्थकदर्थनावनघनं कौलीनकेलीगृहम् । प्रेमप्रौढपयोदपूगपवनं सन्मानमुस्ताङ्कुरे । 'कोलं कोऽलममर्त्यमर्त्यभयकृन्मिथ्या वचो जल्पितुम् ॥ किंच सन्मतिं पृच्छतामसत्यवचनकथने महत्पातकं, यतः -
९३
अशुद्धकथने शुद्धं पृच्छतां पातकं महत् । यतो मृग्यापि नाऽऽदायि, पापमेतत्स्वमूर्द्धनि॥ ३ ॥ तथाहि - थोरावासे पुरे शङ्करो नाम मृगयुः, स चैकदा चापपाणिः पापर्द्धिः पापर्द्धिकृते वने भ्रमन्नेकां कुरङ्गीं शरगोचरीकृत्य यावत् शरं मुञ्चति, तावत्सा तमूचे, हे भद्र! नवप्रसूताया मम लघवो शिशवो विना मातरं मृतिं यास्यन्ति । मारितायां मयि च स्त्रीहत्या बालहत्या चेति महत्पातकं तव भावि, तेन मां मुञ्च । ततः स जगौ, हे हरिणि ! पातकं भवतु मा वा, परं विना मांसं सकलमपि मम कुटुम्बं म्रियते, तेनाऽवश्यं त्वां मारयिष्यामीति तेनोक्ते साऽभणत्, एकशो मां मुञ्च यथा तेषामर्भकाणां स्तन्यं दत्त्वा मूर्धानं चोच्चुम्ब्य समेमीति तयोक्ते सोऽवादीत्-विना शपथं त्वां न मुञ्चामि यतः पशूनां वचसि को विश्वासः ? अथ च सा जगाद, यदि नाऽऽगच्छामि तदा ब्रह्मस्त्रीबालगोहत्यापातकं मम मूर्धनीति तयाभिहिते शङ्करो व्याकरोत्, एतत्पातकमहं न मन्ये, सत्यं पृच्छतामसत्यकथने यत्पातकं स्यात्तत्पातकं यदि स्वीकरोषि तदा व्रज, निजेष्टं च विधेहि ।
सा तदपि महत्पातकमङ्गीकृत्य गत्वा स्वोक्तं च विधाय समागता सती शङ्करं जगौहे भद्र! सत्यं वद, केनोपायेनाऽहं जीवन्ती व्रजामीति तदुक्तमाकर्ण्य स दध्यौ, यदहो तिरश्चयाऽप्यनया तत्पातकं नाऽऽदायि, किं च सत्यं पृच्छन्त्या अस्या यदाऽहमसत्यं वक्ष्ये, तदा पोरप्यस्या अहं पशुरिति विमृश्य स तां जगौ हे हरिणि ! मम वामतो गता त्वं जीविष्यसीति सापि तथैव विधाय शिववती सती निजाऽऽस्पदमाससाद ॥ इति सत्यं पृच्छतामसत्यकथने महत्पापमित्यर्थे मृगीमृगयुकथा ॥ ६८ ॥
॥ ६९ ॥ मतौ स्मरसुन्दरी-पण्यसुन्दरी - कथा ॥ पण्डितानामप्यगम्यमपठितोऽपि मतिमान् वेत्ति, यतः -
कोटिशः शास्त्रवेत्तार - स्तन्न जानन्ति पण्डिताः । वेत्ति वेत्ता यदेकोऽपि मतिकौशलपेशलः ॥ १ ॥
तेन यत्कार्यं कर्त्तुं बलज्ञानविज्ञानवन्तो न शक्नुवन्ति तत्कार्यं मतिमान् हेलया करोति,
Jain Education International
यतः
I
न ज्ञानैर्न च विज्ञानै-र्न बलैर्न छलैरपि । केऽपि कुर्वन्ति यत्कार्यं, तत्केचन धियैकया ॥ २ ॥ १. कोलं कोल सदाशयो द्रुतमति भाषीनैव भासते AHR I
For Private & Personal Use Only
www.jainelibrary.org