________________
९२
श्री कथारत्नाकरे
श्री हेमविजयरचिते दाता प्रातरस्यामवन्त्यां राजा भावीति शिवा वदति । वार्तामिमां तां च क्रीडां विधाय तयोः सुप्तयोर्विक्रमो दध्यौ, यदहो रत्नशबज्ञानमस्य पुरोहितस्य सत्यमभूत् । तदेदमपि सत्यं भावीति मत्वा प्रभाते सार्थेशं विमुच्य विशालायां कुम्भकारस्य गृहं गतो विक्रमो म्लानमुखीं तन्मातरमवलोक्य विषादहेतुमप्राक्षीत् । सा जगौ हे वत्स! अस्याः पुर्याः पतिर्विक्रमसेनो निष्पुत्रः परासुरभूत्, तस्य च राज्यं लोकानामभाग्येन केनाऽपि दुष्टेन देवेनाऽधिष्ठितं, तेन य: कोऽप्यत्र नवीनो राजा स्थाप्यते तं स देवो मारयति, यदि च राजा न विधीयते तदा स बहून् पौरान् विनाशयतीति भीतैः सचिवाद्यैः पौरैः सम्भूय सर्वस्य पौरवर्गस्य नामाऽङ्किताः पत्रिकाः कृत्वा कुम्भे निक्षिप्ताः सन्ति, तेन वारकेण निर्गतपत्रिको मत्पुत्रोऽद्य राज्ये निधास्यते, निशि च तेन देवेन विनाशयिष्यते चेति मम विषादः, इति तयोक्ते विक्रमः स्माऽऽह हे मातः ! यो राजा भवति तस्याऽऽज्ञां किं सृजन्ति सर्वेऽपि पौराः? ।
तथेति तयोक्ते तत्सुतं निषेध्य तत्स्थाने गतो राज्येऽभिषिक्तश्च विक्रमो नगरगोपुरपालकानाकार्य प्रोचे, भो द्वारपालकाः! कस्यां प्रतोल्यां स देवोऽभ्येति? दक्षिणस्यामिति तैरुक्ते सर्वपौरेभ्यः सर्वसुखभक्षिकापुष्पवासादिभिर्भूतं तद्वर्त्म कारयित्वा वासगेहान्तःस्थपर्यले स्वस्थाने महदेकं तूलिकापिहितं दारुदलं निधाय च विक्रमः स्वयं कृपाणपाणिर्दीपच्छायायां भित्तौ निलीय तस्थौ । तदा च प्रदोषे तत्राऽऽगच्छन् सुखभक्षिकादिभिः प्रमनाः कोऽपि भव्यो भूपोऽद्य राज्ये स्थापित इति चिन्तयन् वासगेहं समेत्य स देवो यावत्पर्यङ्कस्थं तत्काष्ठं पाणिना स्पृशति, तावद्विक्रमेण हक्कितः, रे दुष्ट ! बहवो वराकास्त्वया हताः, तत्प्रायश्चित्तं यच्छाम्यसिनाऽनेनेति वदन्तं तं हन्तुं यावत्स धावति तावद्विक्रमस्तमाह, हे देव.! मम कियदायुरस्तीति यमं पृष्ट्वा समागच्छ, वर्षशतमायुरित्यागत्य तेनोक्ते पुनर्विक्रमोऽवक् शून्यं न सुन्दरमित्येकेनाऽधिकं न्यूनं वा कारयित्वा समागच्छ, पुनः स स्माह - तेन यमेनाऽधिकं न्यूनं वा न भवति ।
इति तेनाभिहिते करवालकरालो विक्रमो वक्ति स्म- रे वराक ! तेन यमेनाऽपि यदि न्यूनाऽऽधिक्यं कर्तुं न शक्यते तदा भिक्षाचरेण त्वया कथमहं मारयितुमलम्? इति श्रुत्वा देवोऽवादीत् हे पुरुषोत्तम! तव मतिकौशलेन साहसेन च तुभ्यं तुष्टोऽस्मि, याचस्व किञ्चिदित्युक्तः स्फुरद्विक्रमो विक्रमोऽवदत्, स्मृतस्त्वं समागच्छेरित्यभिधाय विसृष्टो वेतालोऽहमिति स्वं नाम प्रतिपाद्य च स्वस्थानं गते तस्मिन् तेन विहितसान्निध्यो विक्रमादित्यो राज्यं चकार ॥ इति साहसे विक्रमादित्यकथा ॥६७ ॥
॥६८ ॥ सत्यं पृच्छताम् असत्यकथने महत्पापम् इत्यर्थे मृगी-भूगयुकथा ॥
असत्यवचनाद्बहवो दोषाः, यतःअसत्यवचनाद्वैर-विषादाऽप्रत्ययादयः । प्रादुष्पन्ति न के दोषा, कुपथ्यायाधयो यथा ॥ १ ॥
[योगशास्त्रे २/५८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,