________________
तरङ्ग ३/ कथा ६६/६७ कम्पेन न किमपीत्युक्ते तत्कथमिति पुनर्भूपेनोक्ते सोऽब्रवीत्, हे देवाऽऽगम्यतां ममाऽऽवासे, यथा सर्वं दर्शयामि वच्मि चेति राजा तद्गृहं गतः, तेनाप्यासनदानादिना बहु सत्कृत्य राज्ञः पुरः स्वविजृम्भितं पौरविजृम्भितं चाऽभ्यधायि, तन्मतिकौशलेन रञ्जितो राजा तं सचिवं चकार । एवं मित्रदत्तोऽपि सचिवत्वं प्राप्य विहितधर्माः सुगतिभागभूत्। ॥ इति सद्भिः सह वार्तापि वरीयसीत्यर्थे मित्रदत्तकथा ॥६६ ॥
॥६७ ॥साहसे विक्रमादित्यकथा ॥ सत्त्वादेव पुरुषार्थसिद्धिः, यतःधर्मः सत्त्ववतां धर्म-धारिणां विभवागमः। कामो धनवतां तेन, सत्त्वमेव वयं श्रिताः ॥१॥
किं च व्यापारादिगुणविमुखोऽपि पुरुषः केवलात्सत्त्वादेव सांसारिकं च मौक्तिकं च सुखं प्राप्नोति । यतः
व्यापाराद्विभवः सुखं धृतिगुणात्पथ्याद्वपुःपाटवं । सौजन्यात्प्रणयोदयो विनयतो विद्या जयः शौर्यतः॥ वैदग्ध्यं बुधसंस्तवाद्वितरणात्कीर्त्तिर्विवेकाद्गुणः ।
संवेगात्पदमव्ययं च सकलं संजायते सत्त्वतः ॥ २ ॥ किं बहुना? सत्त्ववतो वैरिणोऽपि दासाः स्युः, यत :यान्ति सत्त्ववतां पुंसां वैरिणोऽपि हि दासताम् । किङ्करो विक्रमस्याभू-द्वेतालो वैरवानपि ॥ ३ ॥
तथाहि-उज्जयिन्यां नगर्यां श्रीमान् विक्रमसेनो नृपः, स च सुतो जातो मां मारयिष्यतीति धिया यां स्वपत्नीमापन्नसत्त्वां वेत्ति तां मारयति।।
___ अथैका धारिणीनाम्नी तत्सहचारिणी गर्भिणी सती मारणभयात्प्रणश्याऽभ्यर्णवर्तिनि वटावासे ग्रामे भूपतिसंज्ञस्य चारणस्यौकसि गता, तेनाऽपि स्वसेव रक्षिता सा शुभलग्नमुहूर्तदिनवेलायां मेरुमही मन्दारमिव सुतमसूत, विक्रमसेनस्य सुत आदित्योदये जातश्चेति मात्रा विक्रमादित्य इत्यभिदधे लोकैश्च विक्रम इत्यभ्यधायि । अथ शैशवेऽपि रममाणेन तेन कुट्टितानां डिम्भानां पितृभिरुपालब्धया तया धारिण्या हक्कितः स विक्रमः कोदण्डपाणिस्ततः पुरान्निर्गतस्तत्रैवोषितस्य धनदेवसार्थवाहस्य पत्तिर्भूत्वा क्रमेण तेनैव सार्थेशेन सममवन्त्या-मीयिवान् । तत्र च निशि धनदेव देवः पुरो पुरोहितेन सहाऽक्षक्रीडां कुर्वन् शिवाशब्दमाकर्ण्य तमूचे, हे पुरोहित ! किमियं वक्तीति पृष्टे स स्माह, हे स्वामिन् ! सिप्रायां नद्यां पञ्चरत्नयुतः शबो वहमानो याति।
ततो रत्नान्यादाय मम भक्ष्यं दीयतामितीयं सूचयतीति तयोरालापं भित्त्यन्तरे स्थितो विक्रमो निशम्य चापपाणिस्तत्र गत्वा तानि रत्नान्याऽऽदाय शबं च बहिर्निक्षिप्य तत्रैवाऽऽगत्य तस्थौ । तदा च पुनरपि शिवाशब्दं निशम्य तेनोक्तः पुरोधा अभ्यधात् , रत्नानामाऽऽदाता मम १.रालापं तत्रोपकार्या पार्श्वस्थितो भिO AHR ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org