________________
९०
श्री कथारत्नाकरे
. श्री हेमविजयरचिते श्रेयः सञ्चिनुते च बन्धुरधियं धत्ते पिधत्ते भयं,
किं किं नाऽमरमेदिनीरुह इवाऽऽसङ्गः सतां यच्छति ॥ १ ॥ किं बहुना? ये गुणा महतां सङ्गतास्तान् वक्तुं न कोऽप्यलं, यत :
दत्ते चेद्रसनाः पतिः फणभृतामायुश्च पाथोजभूः । स्यैर्यं निर्जरभूधरः सुरगुरुर्गो कौश कौशलं पेशलम् । सर्वज्ञत्वमुमापतिश्च रजनीराजः कलाः सङ्कलाः।
स्तोतुं तांस्तदयं क्षमेत महतां ये सङ्गताः स्युर्गुणाः ॥ २ ॥ अपि च महद्भिः सह वार्ताऽपि विहिता श्रेयसी, यत :महद्भिः सह वार्तापि क्रियमाणा सुखावहा । कणपेषणकृत् श्रेष्ठी, मान्योऽभूद्भपसंस्तवात् ॥ ३ ॥
तथाहि-- कमलाकरे नगरे जनार्दन इव श्रीमान् जनार्दनो राजा, तत्र च मित्रदत्तनामा श्रेष्ठी, स च दैवत: सञ्जातदौर्गत्यो निशि रहसि परकीयकणपेषणं विधाय तन्मूल्येन धनेन रजकगृहाद्भाटकेनाऽऽदत्तानि वर्यवस्त्राणि परिधाय च प्रत्यहं सायं जनार्दनभूपसभामभ्येति स्म । तं च तादृग्वेषं किमप्यब्रुवाणं च विलोक्य कोऽसौ ? किमर्थमिहाऽहर्निशं समेतीति राजाऽपि दध्यौ। एकदा रात्रौ रात्रिचर्यायां भ्रमन् भूपस्तद्गृहमागतस्तं च कणपेषणं कुर्वाणं विलोक्योपलक्ष्य च स्वसौधमाययौ। द्वितीयेऽहनि चाऽऽस्थानी स्थितो राजा तथैवाऽऽगतं तं निभाल्य तस्य पश्यतो घरट्टभ्रामणरीत्या स्वहस्तमभ्रामयत् । सोऽपि शिर:कम्पनेन राज्ञोक्तमङ्गीकृत्य स्वधाम जगाम । तत्र स्थिताः सचिवादयः सभ्याः किमाभ्यां श्रेष्ठिभूपाभ्यां मिथः सूचितमिति संशीतिमन्तो जाताः ।
द्वितीयस्मिन्नहन्यपि तथैवाऽऽयातस्य तस्य भूपोऽङ्गलित्रयमदीदृशत्। शिरसा भूपाऽभिहितं स्वीकृत्य गते तस्मिन् तयोस्तया संज्ञया विस्मिता भीताश्च बहवो धनवन्तः पौरा गृहं गत्वा तं श्रेष्ठिनमपृच्छन्, हे श्रेष्ठिन् ! राज्ञा किं पृष्टं? भवता च किमसूचि ? अथ सोऽकथयन्नपि बाढनिर्बन्धेन तैरेकान्ते पृष्टः प्राह, प्रथमेऽहनि तथा करं भ्रामयता राज्ञा समस्तमपि नगरं दण्डयामीत्यहं पृष्टः, मयापि शिरःसंज्ञयैव राज्ञोक्तमुररीकृतम्। द्वितीयेऽहनि चाङ्गलीत्रयदर्शनेन राज्ञा लक्षत्रयसुवर्णमाददामीति ममापृच्छि, अहमपि शिर:कम्पनेन तथेत्यभिधाम्। इति तदुक्तमाकाहो अयं महात्माऽऽत्मनामज्ञातो राज्ञश्चातीवमानाऽऽस्पदमिति मत्वा- हे श्रेष्ठिन्मन्नानि स्तोकं मण्डनीयं, हे श्रेष्ठिन्मन्नाम्नि स्तोकं मण्डनीयमिति वदन्तः सर्वेऽपि पौराः सुवर्णमणिमौक्तिकरजतवसनवाहनादिभूरितरं धनं पृथक् पृथक् तस्यौकसि ढोकयन्ति स्म। सोऽपि तत्कालमेव तेन धनेन धनी समजनि। अथ तथैवाऽऽगतस्य तस्य राज्ञाऽङ्गलित्रये दर्शिते तेनाऽङ्गलीद्वयं दर्शितं, लोकानां च लक्षत्रयस्थाने लक्षद्वयमित्यूचे ।
__ पुनरपि राज्ञाङ्गलीद्वये दर्शिते तेनाङ्गलिरेका दर्शिता, लोकानां च लक्षमेकमुक्तं, इति लोका अपि तथा तथा तद्गृहं धनैः पूरयन्ति स्म। पुनरपि राज्ञाऽङ्गलिरेका दर्शिता, तेनाऽपि शिर:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.