________________
तरङ्ग ३ / कथा ६५
८९
स्माह, हे रवे ! अस्ति त्वत्तोऽपि कोऽपि महान् ? इति पृष्टे स जगाद, यो मां पिधत्ते स धनो मत्तोऽपि महानिति प्रतिपाद्य गते सूर्ये स्मृतिमात्रेणोपेयिवांस मेघमुद्दिश्य स प्राह
यत्र स्वर्मणिभिः प्रघूर्णितमलं दग्धं च देवद्रुमैः, शीर्णं सिद्धिभिरस्तमाप्तमनघैर्मन्त्रैरमर्त्यैर्मृतम् कामं कामघटैर्विनष्टमटितं दूरे द्युसच्छ्रेणिभिस्त्वं तस्मिन् समये समस्तमनुजाधारोऽसि धाराधर ! ॥ ५ ॥
हे दुहितः ! इत्याद्यनेकगुणमण्डितस्यास्य मेघस्य पाणिग्रहणं कुरुष्वेत्युक्ता सा वक्ति स्म । यतः - हंसा दूरनिव सिनो वसुमती प्रादुर्भवत्कन्दला । पद्मानां निधनं जडैः परिचयः पङ्कातिरेकः पथि ॥ जाताः स्वैरविहारिणो द्विरसनाः शूरप्रतापक्षयः । प्रावृट्कालकरालकेलिकलितस्तन्मूर्त्तिभाजामभूत् ॥ ६ ॥
हे पितः ! इत्यादिदूषणैर्दूषितस्याऽस्य सौदामिनी कामिनी, तेनास्य पत्नी भूत्वा सपत्नीपीडापात्रं न भविष्यामीति तया निराकृतं पश्चाद् व्रजन्तं स जीमूतमूचे । " हे धाराधर ! त्वत्तोपि कोऽपि प्रभुः ?" यो मां क्षणाद्विनाशयति स समीरो मत्तोऽपि तरस्वीति प्रतिपाद्य घने गते सति स्मरणादेव समेतं समीरणमुद्दिश्य हे सुते ! जगतामपि जीवातोरस्य समीरणस्य सहचारिणी भवेत्यभिहिता सोचे, हे तात! सदैवायमनवस्थितो शरीरदुर्गतः सर्वरसशोषकः समस्तद्विजिह्वपोषकः । किं चायं मातरिश्वा तेनामुष्य गृहिणी न भविताऽस्मीति तया दूरिते तस्मिन् 'मयाप्यकम्प्यः पर्वतो मत्तोऽपि महानि' त्यभिधाय च गते पवने स्मृत्यैव समुपेयिवांसं गिरिमुद्दिश्य हे तनुजे ! अस्य पर्वतस्य प्रेयसी भवेति प्रेरिता साऽवक्, हे ताताऽयं प्रभूतपाषाणसङ्गमः सदैवाऽजङ्गमः पुष्कलकन्दरः क्षितिधरः, किं च नाम्नाप्ययं ग्रावा, तेनामुं न वरिष्यामीति तया परिहृते तस्मिन् यो मां खनित्वा खण्डशः करोति स मूषको मत्तोऽपि बलवानित्युदीर्य गते गिरौ प्रणिधानादागतं दम्भोलिदशनं गणाधिपवाहनं मत्तसौरभेयलोचनं वृषलोचनं विलोक्य तत्कालं पुलकिताऽङ्गी स्मितमुखी सम्भ्रमात् समुत्थाय तं पाणिना जग्राह, जगाद च बोधिशर्माणं, हे तात! ममाऽयमेवाऽभिमतः प्राणप्रिय इत्यभिहितः सोऽपि बलीयान् जातिस्नेह इति विचार्य तां पुनरपि मूषिकां निर्माय तेन मूषकेण सह प्राहिणोत् ॥ इति जातिरागो बलीयानित्यर्थे मूषिकाकथा ॥ ६५ ॥ ॥ ६६ ॥ सद्भिः सह वार्ताऽपि वरीयसीत्यर्थे मित्रदत्तकथा ॥ गुणिनां संसर्गः सर्वं यच्छति, यतः -
कीर्त्तिं कन्दलयत्यघं दलयति प्रह्लादमाह्लादयत्यायासं निरुणद्धि बुद्धिविभवं सूतेऽतिशेते रिपून् ।
Jain Education International
For Private & Personal Use Only
1
www.jainelibrary.org