________________
श्री कथारत्नाकरे
८८
श्री हेमविजयरचिते तत्पदद्वयं च केनाभाणीति पृष्टः केवली स्माह- वसन्तपुरे कस्यापि वणिजो धनवती सुता, सा च मातृपितृभ्रातृमातुलैः पृथक् पृथक् वरेभ्यो दत्ता । ते चाऽज्ञातमिथः समागमास्तां परिणेतुं युगपदाययुः । पित्रा दत्ता कन्या प्रमाणमिति तामेकः परिणीतवान् । सा च धनवतीयं गुणसुंदरी, तत्पतिस्त्वमिहापि तत्पतिरभूः, येऽन्ये चास्यां रागवन्तो मृतास्ते महानन्दप्रभृतयस्त्रयोऽत्रापि रागिणोऽभूवन् । तव पूर्वभवमित्रेण केनापि वटवासिना देवेन तत्पदद्वयमभाणि । इति पूर्वसम्बन्धं निशम्य सञ्जातवैराग्योऽसौ गुणसुन्दरीकुक्षिजन्मनि तनुजन्मनि गृहभारमारोप्य गुणसुन्दरीयुतस्तस्यैव केवलिनोऽभ्यर्णे परिव्रज्य शिवमव्राजीत् ॥ इति शीले गुणसुन्दरीकथा ॥ ६४ ॥
॥ ६५ ॥ जातिरागो बलियान् इत्यर्थे भूषिकाकथा ॥ स्वकीया जातिस्तु सर्वेषामभिमता, यतः
निअदेसो निअवेसो, निअजाई निअपहो नियं सत्थं । निमित्तं निअवित्तं, सत्तवि सव्वस्स इट्ठाई ॥ १ ॥ तत्रापि जातिस्तु जीवानां विशेषात्प्रेयसी, यतः -
जह जणणी बालाणं, बप्पीहाणं जहा य घणमाला । भमराणं जह नलिणी, जाई जीवाण तह इट्ठा ॥ २ ॥
अपि च
सूर्यं भर्त्तारमुत्सृज्य, जीमूतं मारुतं गिरिम् । स्वयोनिं मूषिका प्राप्ता, स्वजातिर्दुरतिक्रमा ॥ ३ ॥
तथाहि - गतभ्रमे तापसाश्रमे सञ्जातबहुलब्धिर्बोधिशर्माभिधस्तापसो वसति स्म । स चान्येद्युरभ्यर्णवर्त्तिनीं वर्त्तिनीनामनदीं स्नानार्थं गतः, तत्र घनतरनीरवाहे तत्प्रवाहे ब्रुडन्तीमेकां मूषिकां विलोक्य कृपया बहिर्निष्कासयामास ।
शीतेन कम्पमानां तामुदीक्ष्य तरुणीभूतकरुणः स क्व मुञ्चाम्येनां वराकीं ? किं च मयैव मरणादियं त्राता, तेनेयं मे दुहितेति मत्वा तां लब्धिविशेषवशेन स तापसः कन्यां चकार । यतःकर्णान्तायतलोचना शशिमुखी मत्तेभकुम्भस्तनी, बिम्बोष्ठी मृगराजपेशलकटी गाङ्गेयगौरद्युतिः । श्रोणीभारघना मरालगमना कुन्दावदातद्विजा, तन्वी पेशलपाणिपादयुगला कन्या न केषां मता ? ॥४ ॥ ईदृशीं तामङ्गुल्या समादाय बोधिशर्मा स्वमुटजमागत्य तद्विवाहचिन्ताघूर्णितचेतास्तद्वरार्थं सर्वदेववर्यं श्रीसूर्यं स्मृतवान् । तत्स्मरणतः समेतं सूर्यमुद्दिश्य हे पुत्रि ! भगवन्तं भानुमालिनमेनं वरं वृणुष्वेति तेनाभिहिता सा स्माह - हे तात ! असौ पङ्गुस्तापकरः कठोरकरः पर्यटनशीलः सायमस्ताभिलाषी वारुणीसक्त : समेतरवाह इत्यादिबहुदोषैर्दूषितः, किं चास्य छाया कान्तिश्चेति पत्नीद्वयं तेनास्य पत्नी भूत्वा सपत्नीद्वयसङ्कटे न पतिष्यामीति तया निषिद्धं व्रजन्तं सूर्यं तापसः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.