________________
तरङ्ग ३ / कथा ६४
८७
सुन्दरोऽपि प्रच्छन्नतया तत्र स्थितस्तत्सर्वं विलोक्य तां सीतामिव सतीं जानान: स्वपुरं गत:, ततः स्वजनकमापृछ्य तदानयनार्थं सीकरेण किङ्करेण युतो वेगवतीनामकरभीमारूढस्तत्रागतः। क्रमेण जातधनेन धनदत्तेन दत्तबहुवस्त्राभरणां तां स्वप्रेयसीमादाय स निशीथे स्वपुरम्प्रत्यचालीत् । गव्यूतिद्वमिते पथि गता सा पतिं स्माह, हे नाथ ! कनकावलिनामा महामूल्यो मम हार: पल्यङ्कपादे मया विस्मृतः । अथ तं हारमाहर्तुं पुरान्तर्गते गुणसुन्दरे तद्रूपमोहितः सीकरोऽपि तां करभीमारूढो गुणसुन्दरीयुतः पुरतोऽचलत् । गुणसुन्दरोऽपि हारं लात्वा तत्रागतस्तत्र किमप्यपश्यन् नूनं सीकर : प्रियामादाय गत इति निश्चित्य महानन्दवदकार्षीत् । अथ प्रभाते वटनिकटस्थितया तया प्रहिते सीकरे कमपि ग्रामं प्रविष्टे सति तामेकाकिनीं कामिनीं धनभृतां तां करभीं चालोक्य वटोपरिस्थितो मस्करो नाम तस्करो वटादुत्तीर्य तां करभीमारूढां लात्वा पुरः प्रतस्थे । ग्रामादागतः सीकरोऽपि तत्र तामनालोक्य महानन्द इवाकरोत् । अथ पथि गच्छन्ती सा दैवगतिमचिन्त्यस्वरूपां मन्यमाना स्वशीलरक्षणार्थं तं तस्करं स्माह, हे सुभग ! वरमिदमासीत्, यत्स मम पतिर्गतः, त्वं च देव इव सुन्दरो दैवेन दत्त:, तेनावां श्रीवासे नगरे गत्वा तत्र सुखेन स्थास्याव इत्युक्तेन तेन श्रीवासनगराध्वनि नीयमाना सा करभी द्रुतमेव तत्परिसरमभ्येति स्म । अथ सा तत्र पतिगोत्रजाऽमरीचैत्ये स्वयं स्थित्वा भोज्यकृते च तं पुनः प्राहिणोत् । गते च तस्मिन् सा तां करभीमारूढा श्वशुरवेश्मनि गता । तत्र सा श्वशुरस्य मार्गोदन्तं सर्वं निवेद्य सुखेन तत्र तस्थौ । अथागतस्तस्करस्तामदष्ट्वा महानन्द इव व्यधात् । अथ ते चत्वारोऽपि तत्र सङ्गताः सन्तः परस्परं पृष्टाश्च स्वस्ववैराग्यकारणं जगुः ।
महानन्दादिभिस्तैस्त्रिभिः स्वस्ववृत्तान्ते कथिते सति तां कुशलेनात्मौकसि प्राप्तां मत्वा गुणसुन्दरस्तान् जगौ । हे सुहृदो ! वदताथ कथं करपत्रमोचनं योगिवेषं च विमुञ्चथ । अथ यदि तां पश्यामस्तदा भवदभिमतं कुर्म इति वदद्भिस्तैस्त्रिभिर्योगिभिर्युतः सोऽपि योगिवेषो भुवि भ्रमन् क्रमेण श्रीवासनगरं समेत्य स्वपितुरङ्गणे स्थितस्तत्पदद्वयं पठन् केनापि दीयमानां भिक्षां न जग्राह । अथ तं वृत्तान्तं सम्यगवगम्य बहिरागता सापि स्वपतिमुपलक्ष्याग्रेतनं तत्पदद्वयं च भणित्वा गृहान्तर्गता पतिपितरं प्राह, हे तात ! युष्माकं सुतो बहिः स्थितोऽस्ति, तयेत्युक्तः श्रीदत्तोऽपि स्वपुत्रं गृहान्तरनैषीत् । अथ गुणसुन्दरोऽपि विहितवर्यवेषस्तया परिवेषितेन भोजनेन भोजयित्वा वस्त्रालङ्कारैः कृतसत्कारान् स्वस्वस्थानाय व्यस्राक्षीत् ।
अथ पितरि परलोकमुपेयुषि गुणसुन्दरोऽपि गृहभारं स्वीकृत्य तया सह सुखमनुभवन्नन्यदा तत्र समवसृतं केवलिनं प्रणम्याप्राक्षीत् । [ हे भगवन् !] कथमस्यां गुणसुन्दर्यां तेषां त्रयाणां रागः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org