SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ८६ श्री कथारत्नाकरे श्री हेमविजयरचिते 'रान्ध्यो भातज जे होये ते किम राख्यो जाय' । इति पदद्वयं पुनः पुनः पठन्तं पुरो गच्छन्तमेकं योगिनमालोक्य तत्पृष्ठे दधावे । पुरतस्तदेव पदद्वयं पठन् स योगी, पृष्ठतश्च स कुमारः एवं गच्छतोस्तयोः स योगी क्वापि तिरोदधे । तं योगिनमपश्यंस्तत्पदद्वयं मनस्यवधार्य विपणावागत्य बहु धनमादाय च पित्राद्यैरज्ञात एव पुरान्निर्गत्य विहितयोगिवेषः स एकाक्येव ययौ. गलालिङ्गीतमृगशृङ्गाभरणः पादुकापेशलचरणः करकलिततुङ्गत्रिशूल: शिरोनिबद्धविविधमूलः प्रभूतभूतिधारी विविधवर्णकन्थाहारी स्फटिकमुद्रामण्डितश्रवणस्तत्पदद्वयपठनप्रवणः स कुमारयोगी प्रतिनगरं प्रतिपुरं प्रतिग्राम प्रतिगृहं प्रतिहट्टं च भिक्षार्थं बभ्राम। तत्पितापि ग्रामारामादौ पुत्रं गवेषयन् तत्प्रवृत्तिमप्यप्राप्य सशोको गृहे तस्थौ। अथैवं भ्रमंस्तत्पदद्वयं च भणन् स कुमारोऽन्यदा रत्नपुरे पुरे पुरन्दरस्य श्रेष्ठिनो गृहं गतः । तदा भिक्षादानार्थं बहिरागता रूपजितसुरसुन्दरी गुणसुंदरीनाम तस्य पुत्री तत्पदद्वयं भणन्तं तं योगिनमवलोक्याग्रेतनं पदद्वयमभाणीत् मनहाथी कुशलांकुशे आपो आप रखाइ ॥१॥ इति तयोक्तं तत्पदद्वयमाकर्ण्य स इति दध्यौ, नूनमिमामेव परिणीय तत्पितगृहे एव मुञ्चामि, तदा च कथमियं स्वमखण्डितं रक्षयिष्यतीति मत्वा मुक्तयोगिवेषं तं गृहमागतं विलोक्य साम्प्रतमेव पुत्रो जात इति मन्यमानाभ्यामिव पितृभ्यां महान् महो निर्ममे। ततो गुणसुन्दरोऽपि पितुराज्ञया तामेव परिणीय तत्पितृगृहे एव विमुच्य कतिभिरहोभिः सार्थयुतः सूत्रितसार्थवाहवेषो रत्नपुरं ययौ। तत्र च दैवात्सञ्जातदौर्गत्यस्य स्वश्वशुरस्य भाटकगृहीते हट्टे तिष्ठन् सन् स तत्र पूर्वमागतेन महानन्देन सार्थवाहेन सह मैत्रीमसूत्रयत्। अथैकदा स्वपितुराकारणार्थमागतां जातयौवनां स्मरसुन्दरीमिव गुणसुन्दरीमवलोक्य महानन्दोऽनङ्गवशः सन् गुणसुन्दरमभाणीत्। हे मित्र! यद्यस्य वणिजस्तनूजा मम मिलति, तदास्याः पिता यदीहते तत्प्रयच्छामीति भणितो गुणसुन्दरस्तदुक्तं तस्याः पितुरवोचत्। सोऽपि तदाकर्ण्य वज्राहत इव म्लानमुखो गृहं गतो दौर्मनस्यकारणं बाढं निर्बन्धेन सुतया पृष्टस्तदुक्तं वक्ति स्म। [तत् श्रुत्वा सा जगौ] हे तात ! दौर्मनस्यं जहि विधेहि मदुक्तम्। विहिताकिञ्चन्यनिधनं धनं लक्षत्रयसुवर्णमितमादौ गृहाण किञ्चाहमपि तव कुलस्य मन्दाक्षरदक्षं कृत्यं न करिष्ये; इति निशम्य धनदत्तोऽपि पुत्री सतीमतल्लिकां मन्यमानस्तदुक्तं प्रतिश्रुत्य ततो लक्षत्रयसुवर्णटङ्कानादाय तेन सह सायं सङ्केतं ददौ । महानन्दोऽपि विहितस्फारशृङ्गार: सायं तद्गृहमागतः। श्रेष्ठिसुतयाप्यासनमज्जनभोजनादिना बाढमुपचर्य जलस्थाने जलकान्तं मद्यं पायितः, ततो मद्यविवशं तं सापि वरचीवरेण ग्रन्थौ निबद्धय गोमयमिव बहिरक्षिपत्। महानन्दोऽपि क्रमेणोत्तीर्णमद्यस्तत्सुखात्सुवर्णाच्च प्रभ्रष्टः प्रकामं विरक्तः सन् योगिवेषमंगीकृत्य करपत्रमोचनार्थं गङ्गायमुनासङ्गमे गतस्तत्तीर्थस्वामिना षण्मासी विलम्बितस्तत्रैव तिष्ठति स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy