________________
८५
तरङ्ग ३/ कथा ६३/६४ भविष्यति । अथ सेहन्यपि गृहमागत्य जारेण घृतमानीय पतिं भोजयति । चक्रपाणिरपि यथेच्छं घृतं भुञ्जानः सन् हे प्रिये ! अद्य द्वारं न पश्यामि, अद्य कपाटं न पश्यामि, अद्य भित्तिं न पश्यामि, अद्य स्तम्भं न पश्यामि, अद्य च हे प्रिये ! तव मुखमप्यहं न पश्यामीति वदन् जारानीतं भूरिघृतं च भुञ्जन् महाबलयुतोऽतीवमांसलो जातः, सञ्जातप्रत्ययया तया भृशं प्रभूतेन घृतेन भोज्यते । भुक्तेन घृतेनातीवमांसल: सोऽपि पश्यन्नपि दम्भेन क्रमात् कियद्भिरपि दिनैः सम्पूर्णोन्धोऽजनिष्ट । सापि तं द्वारस्तम्भभित्तिप्रभृतिभिः पदे पदे हन्यमानं सम्यगन्धमज्ञासीत् । अन्यदाऽन्धत्वेन विहितविश्वासे तस्मिन् द्वारदेशे तस्थुष्येव स विजयसौभाग्यस्तस्यौकसि समेतः, तया सह च स्वैरं निरङ्कुशतया विषयाननुभूय निर्गच्छन् स दण्डपाणिनेव तेन चक्रपाणिनाऽत्यर्थं निहतः परासुरभूत् । तं च तथाविधं विधाय चक्रपाणिस्तां स्वैरिणीं [केशेष्वाकृष्य चपेटादिभिः सम्यक् पूजयित्वा] स्माह रे रण्डे पश्यैनं तवोपपतिं यद्यथ पुनरपि स्वैरं विचरसि तदा त्वामप्येनमिव यमवेश्मनि नेष्यामीति वारिता सापि ततः प्रभृति सुन्दरत्वेन तस्थौ । चक्रपाणिरपि तत्प्रभृति लोके घृतान्ध इति विश्रुतः ॥ इति दम्भोऽपि श्रेयानित्यर्थे घृतान्धविप्रकथा ॥६३॥
॥६४॥शीले गुणसुन्दरी कथा ॥ सम्पत्तयो हि शीलादेव भवन्ति । यतः
शीलादेव भवन्ति मानवमरुत्सम्पत्तयः पत्तयः, शीलादेव भुवि भ्रमन्ति शशभृद्विस्फुर्तयः कीर्तयः । शीलादेव नमन्ति पादपुरतः सद्युक्तयः शक्तयः,
शीलादेव पुनन्ति पाणिपुटकं सर्वर्द्धयः सिद्धयः ॥ १ ॥ किं बहुना? शिवसीमन्तिन्यपि शीलवतां स्वयंवराऽभ्येति, यतः
वाल्लभ्यं वितनोति यच्छति यश: पुष्णाति पुण्यप्रथां, सौन्दर्यं सृजति प्रभां प्रथयति श्रेय:श्रियं सिञ्चति । प्रीणाति प्रभुतां धिनोति च धृतिं सूते सुरौकः स्थिति,
कैवल्यं करसात्करोति ललितं शीलं नृणां शीलितम् ॥ २ ॥ किं चेदं ब्रह्मव्रतं धन्याः काश्चिन्मृगीदृशो व्यसनेऽपि पतिताः पालयन्ति । यतःकष्टेऽपि धन्यतमधैर्यनिकायमब्ज-नेत्रा भवन्ति परिशीलितशीललीलाः । सार्थेश-किङ्कर-मलिम्लुचसङ्कटेऽपि, पाति स्म शीलमनघं गुणसुन्दरी यत् ॥ ३ ॥
तथाहि-श्रीवासे नगरे श्रीपतिरिव श्रीमान् श्रीदत्तो नाम नगर श्रेष्ठी तस्य च श्रीमती कुक्षिसम्भवो गुणसुन्दरो नाम नन्दनः, कृतद्वासप्ततिकलाभ्यासो द्वादशवार्षिकश्च सोऽन्यदा पितरि भोजनार्थं गृहे गते सति विपणिस्थितो मध्याह्ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org