________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते एकदा बहुभिर्वत्सरैर्गृहमागतस्य तस्य प्रियस्य मज्जनभोजनादिभिर्बह्वीं भक्तिं विधाय विकालवेलायां पितृगृहगमनमिषेण पूर्वसङ्केतितेन तेनोपपतिना सह रन्तुमुत्सुका सती स्वकटौ स्वमर्भकमारोप्य क्वापि देवकुले सा गता । अथ सा सुतं भुवि विमुच्य तेन जारेण सह सम्भोगं विधाय गृहमागच्छन्ती कामान्धत्वेनात्यौत्सुक्येन च तत्र मुक्तस्य सुतस्य स्थाने देवप्रतिमामादाय गृहमागता, क्व सुतः ? केयं च प्रतिमेति तेन पत्या पृष्टा सा स्वैरिणी तत्कालसमुत्पन्नया मत्येति प्रत्युत्तरं ददौ, हे नाथ यदा त्वं प्रयाणे प्रस्थितस्तदा मयास्य देवस्य पुरस्तादिति प्रत्यपादि । यदा मम प्राणपतिरेष्यति तदा तद्युताहं त्वां प्रणम्य पूजां च विधाय तेन सह सम्भोगं करिष्यामीति मया नियमः कृतोऽभूत् । तेनोत्सुरत्वात्तवागमनं तत्र च दवीयसि देवौकसि नार्हतीति पूजकस्याभ्यर्णे सुतं ग्रह विमुच्येमा प्रतिमामहमानयं तेनेमां प्रतिमां प्रणम्य द्रुतं पूजय, यथेमां तूर्णं पश्चाद्दत्त्वा सुतमानयामीति तयाभिहितेन तेनापि द्रुतमेव प्रियोक्ते विहिते सति त्वरमाणा सा स्वैरिणी देवौकसि तां प्रतिमां विमुच्य सुतं च लात्वा गृहमगमत् । अहो मयि भक्तिमतीयमिति मन्यमानो नारायणस्तया सह गृहवासमपालयत् ॥ इति स्त्रीचरिते विप्रप्रियाकथा ॥ ६२ ॥
८४
॥ ६३ ॥ दम्भोऽपि श्रेयान इत्यर्थे घृतान्धविप्रकथा ॥ कपटलम्पटाः सन्तो ये धर्ममैत्रीमिच्छन्ति ते मूर्खा एव । यतः -
दम्भेन मैत्री - कपटेन धर्मं, सुखेन विद्यां परुषेण नारीम् । परोपतापेन समृद्धिभावं, वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ १ ॥ किंचैतादृशोऽपि दम्भः स्वार्थाय विहितः श्रेयान् । यतः
सिद्धये निजकार्याणां भवेद्दम्भोऽपि सुन्दरः ।
जारं व्यापादयामास, घृतान्धो ब्राह्मणो यथा ॥ २ ॥
I
तथाहि वटाराग्रामे चक्रपाणिनामाऽग्रजन्मा, तस्य सेहनीनामगेहिनी, सा च स्वैरिणी विजयसौभाग्येन मन्त्रिसूनुनाऽऽसक्ता जलग्रहणमिषेण गता सती ग्रामपरिसरसरसीपालिस्थितचैत्यमण्डितां शुण्डानामचामुण्डां कमलैरभ्यर्च्छति प्रत्यहमर्थयाञ्चक्रे । हे मातश्वामुण्डे ! मम धनिकमन्धयेति प्रार्थनया पूजया च नित्यं विलम्बमानां तां मत्वा तत्पतिस्तत्कारणं गवेषयन् पृष्ठतो गच्छंश्र्व तां चैत्ये प्रविशन्तीमवलोक्याऽन्यदा प्रभाते तत्प्रथमत एव गत्वा चामुण्डापृष्ठे संलीयाऽतिष्ठत् । तदा च तत्रागत्य तथैव तदेव प्रार्थयन्तीं तां चामुण्डापृष्ठस्थः स चामुण्डेवावक् हे सेहनि ! तव भक्तिपूजाविनयैरहं तुष्टास्मि, यथेच्छं वरं वृणुष्वेति निशम्य सापि तदेवैच्छंत । देवी स्माह हे पुत्र ! यथेच्छं तं घृतं भोजय, भूयसा भुक्तेन घृतेन स तव पतिः सद्य एवान्धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,