________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते वाग्भिराश्वासितो गृहे तस्थौ, तेन श्रेष्ठिनापि मूल्येन शशशिशुद्वयमादाय शैशवादपि तथा शिक्षितं यथा निशि मुखान्तर्निहितं कनकरजतादिनाणकं तत्प्रभाते प्रयच्छति । तथाविधौ तौ द्वावपि शशावादाय स श्रेष्ठी सुतयुतो यानपात्रेण जटिलद्वीपे शालिनीं नगरीं गत्वा स्वयं च वणिक् पुत्रवेषमादाय यदा वेश्या शशौ याचते तदाहं पृष्टव्य इति शिक्षां च दत्त्वा पुत्रं वेश्यावेश्मनि प्राहिणोत् अथ च धनार्थमागतानां तस्याः किङ्करीणां पश्यन्तीनां सतीनां पुरस्ताभ्यां शशाभ्यां मुखाद्वितीर्णं सुवर्णादिधनं स श्रेष्ठिपुत्रो वितरति स्म । ताभ्योऽवगतशशकवृत्तान्ता सा पण्यकान्ता निःस्नेहैरपि सस्नेहैरिव नीरागैरपि सरागैरिव वचनैस्तं मोहयन्ती स्माह, हे नाथ! यौ शशकौ तव कनकादिधनं यच्छतस्तौ मम यच्छेत्युक्ते स ज्ञास्यते इत्यभिधाय स्वस्थाने गत्वा पितुरभ्यधात्, पितापीति शिक्षां ददौ, हे वत्स ! शशावत्याग्रहेण याचमानाया वेश्यायास्त्वयेति वाच्यं, यदा मया त्वया सह सर्वं धनं भुक्तं तदा गृहं गतेन निः श्रीकेण मया स्वगोत्रजा देवी विधिनाराधिता, तया च तौ प्रत्यक्षत्रिदशौ शशौ दत्तौ, तेनात्यन्तनिर्धनस्यैव वेश्मनीमौ तिष्ठतो नान्यस्येति [ पित्रा शिक्षितं ] वदन्तं तं सा स्माह, हे प्राणप्रिय ! तदा मदीयं सर्वमादाय तौ मम देहीत्यभिधाय दत्तमणिमौक्तिककनकरजतताम्रादिसर्वस्वां तृष्णाकृष्णाहिदष्टां तां दुष्टां स पुनरपि प्रोचे, हे प्रिये ! शरीरलग्नमाभरणाद्यपि दत्त्वा सर्वथा निर्धना भव ।
यथेमौ तवौकसि तिष्ठत इत्युक्ता सन्तोषमुक्ता सा तदपि दत्त्वा गीततूर्याद्याडम्बरपुरस्सरं तेन दत्तौ तौ शशकौ गृहमनैषीत् पुण्यसारोऽपि प्राक्सज्जितप्रवहणैः सर्वं तदीयं धनमादाय स्वगृहमगात् । इतश्च लोहार्गलाऽपि तेन श्रेष्ठिना प्राक्वदनान्तर्निहितं धनं शशाभ्यां दत्तं प्राप्य कामं । ततो द्वितीयस्मिन्नहनि याचितौ तौ किमप्यददानौ वीक्ष्य हा धूर्त्ताप्यहं तेन धूर्तेन मूषितास्मीति विलपन्ती दुःखिनी जाता. पुण्यसारोऽपि प्राप्तपितृपदः पुण्यं विधाय सद्गतिभागभूत् । अतिलोभादिहाप्यनर्थ इत्यर्थे लोहार्गलावेश्याकथा ॥ ६० ॥
८२
॥ ६१ ॥ खलानां कौशले खला एव विज्ञा इत्यर्थे चौरद्वयकथा ॥ खलानां विलसितमवसितुं हि खला एवास्खलितकौशलाः, यतःन सूरिः सुराणां गुरुर्नाऽसुराणां पुराणां रिपुर्नापि नापि स्वयम्भूः । खलानां चरित्रे खला एव विज्ञा, भुजङ्गप्रयातं भुजङ्गा विदन्ति ॥ १ ॥ अपि च
खलानामेव वैदग्ध्यं, खलानां चरिते खलु ।
चौरेण निहितां स्थालीं, तटाकाच्चौर आददे ॥ २ ॥
तथाहि - वंशागरे नगरे तस्करकलाकलापकलितप्रसिद्धिः सिद्धिसुतो नाम तस्करः, तस्य चान्येद्युरेकोऽनेकमलिम्लुचचातुर्यकुशलो मुशलो नाम चौरोऽभ्यागतोऽभ्येति स्म । मुशलोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.