________________
तरङ्ग ३ / कथा ५९/६०
विरक्तचित्तेषु रतिं न कुर्याद्, भग्ना हि शाखा न विलम्बनीया । गन्तव्यमन्यत्र विचक्षणेन, पूर्णा मही सुन्दरसुन्दरेण ॥ ३ ॥
अपि च
स्नेहेऽवज्ञा क्षयः काये, कार्ये मान्द्यं रिपौ स्थितिः । गाने कासः पथि श्वासः, कालकूटच्छटा इमाः ॥ ४ ॥ इत्युदीर्य सम्मोहनोऽपि निजं स्थानमगमत् ॥ इति भग्ने चित्ते न प्रीतिरित्यर्थे सर्पविप्रकथा ॥ ५९ ॥ ॥ ६० ॥ अतिलोभत इहाप्यनर्थे लोहार्गलवेश्या -कथा ॥ पुण्यनैपुण्यलावण्यादयो हि गुणा लोभात्प्रलीयन्ते यतः -
मूलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः । क्रोधानेररणिः प्रतापतरणिप्रच्छादने तोयदः ॥ क्रीडासद्म कलेर्विवेकशशिनः स्वर्भाणुरापन्नदी । सिन्धुः कीर्त्तिलताकलापकलभो लोभः पराभूयताम् ॥ १ ॥ किञ्च लोभवन्तं स्वामिनं सेवका इव सर्वदोषाः स्वयमायान्ति । यतः - लोभश्चेदगुणेन किं ? पिशुनता यद्यस्ति किं पातकैः ? । सत्यं चेत्तपसापि किं ? शुचि मनो यद्यस्ति तीर्थेन किम् ? । सौजन्यं यदि किं निजैश्च ? महिमा यद्यस्ति किं मण्डनैः ? । सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ? ॥ २ ॥ तेन लोभभाजां विपत्तयः, यतः -
८१
तृष्णा हि कृष्णाहिवधूरिवोग्रा निहन्ति चैतन्यमशेषमाशु । लात्वा शशौ लोभवशेन वेश्या, लोहार्गला जातवती दरिद्रा ॥ ३ ॥ तथाहि-सागराभ्यर्णवर्त्तिनि कनकसागरे नगरे गुणसारस्य श्रेष्ठिनः पुण्यसारः सुतो द्वादशकनककोटिमादाय पञ्चप्रवहणयुतः प्रभूतवणिक्पुत्रपरिवारयुतो जलधौ जटिलद्वीपे शालिनीं नगरीं गतः, तत्र च सौभाग्यभराभिभूतमधुसुताबालया लोहार्गलया पण्यमहिलया सह स हि यौवनसारः पुण्यसारः स्वैरं तया सुखमनुभवति स्म । यतःयौवनं धनसम्पत्तिः, प्रभुत्वमविवेकिता ।
Jain Education International
एकैकमप्यनर्थाय, किं पुनस्तच्चतुष्टयम् ? ॥ ४ ॥
एवं विषयान् सेवमानोऽसौ ग्रीष्मकाले जलमिव तत्सर्वं द्वादशकनककोटिधनं निधनसाद्विधाय जात इव जातः, तदा च निःस्नेहया तया संमार्जनीरजः प्रयोगेण गृहान्निष्कासितः, ततः स पुण्यसारः स्वपरिवारयुतः पुरमागतो धननिधनेन लज्जितः पित्रा तरुणानामिदमर्हतीति
For Private & Personal Use Only
www.jainelibrary.org