________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते ततश्चतुर्थः प्रोचिवान् अहमेनं सिंह सञ्जीवयामीति मम शक्तिः । इत्यभिधाय पठितबालिशैस्तैस्त्रिभिः स्वस्वोक्ते कृते सति स्वोक्तं कर्तुमुद्यतं पठितमूर्ख चतुर्थं विलोक्य मतिमान् पञ्चमः प्राह, हे सुहृदो ! मृतमेनं पञ्चाननं मा सञ्जीवयन्तु किं चासौ जीवितो नाऽऽत्मानं शिवंकर इत्यात्ममित्रोक्तमकुर्वत्सु तेषु मतिमन्मुख्यः स निकटवर्त्तिनमेकं तरुमारुरोह । ततः सञ्जीवितः स केसरी तान् विनाश्य वने विजहार । कमलाधरोऽपि ततः समुत्तीर्य देशान्तरे स्वमतिरञ्जितेभ्यो राजादिभ्यो धनं प्राप्य क्षेमेणाऽगारमागमत् ॥ इति मतिविषये कमलाधरविप्रकथा ॥५८ ॥
॥५९ ॥ भन्ने चित्ते न प्रीतिरित्यर्थे सर्प-विप्रकथा ॥ अवज्ञातो गता हि प्रीतिः पुन:ति, यतः
__ अवज्ञात्रुटितं प्रेम नवं कर्तुं क ईश्वरः ।
सन्धिं न याति स्फुटितं जतुलेपेन मौक्तिकम् ॥ १ ॥ तेन यथा कथञ्चिदवज्ञातो भग्ना प्रीतिर्न पुनर्भवति । यतः
__भग्नचित्ते पुनः पुंसां न भवेत्प्रीतिरुत्तमा ॥
पुच्छच्छेद-सुतध्वंस-भुजङ्गद्विजयोरिव ॥ २ ॥ तथाहि-वैकुण्ठावासे नगरे वैकुण्ठो नाम सूत्रकण्ठः । स च प्रभाते भागवतं सायं च भारतं तथा मधुरस्वरेण वाचयति, यथा लोकेषु व्याख्यानं शृण्वत्सु सत्सु तत्स्वरमाधुर्यमोहितः संमोहननामैकः भुजङ्गमस्तव्याख्यानमाकर्ण्य तस्य पुरः सुवर्णटङ्कद्वयं विमुच्य याति । एवं प्रत्यहं सुवर्णटङ्कद्वयलाभेन वैकुण्ठोऽपि वैकुण्ठ इव श्रीमानभूत् । एकदा च ग्रामान्तरं गते वैकुण्ठे महादेवाभिधाने तत्सुते व्याख्यानं विदधति संमोहनोऽपि पूर्वप्रीत्या तथैवागत्य सुवर्णटङ्कद्वयं विमुच्य याति एकदा च तत्सुतो दध्यौ, यदमुं भुजङ्गमं निहत्यास्य बिलात्सर्वं सुवर्णं गृह्णामि तदा च तथैव सुवर्णं विमुच्य गच्छन्तं तमहिमवलोक्य तन्मारणाय तेन वैकुण्ठपुत्रेण विहितो यष्टिप्रहारः शीघ्रतरगतेस्तस्य सर्पस्य पुच्छच्छेदमकरोत् ।
ततस्तस्यामेव निशि तेन वैरेण कृतान्तेनेव कुपितेन सर्पण दष्टो महादेवः पञ्चत्वमाप। अथ गृहमागतो वैकुण्ठोऽपि पुत्रमृत्युना दुःखितः पुत्रप्रेत्यक्रियां विधाय तथैव व्याख्यानं कुर्वन् समेतं तं फणिनं निर्वर्ण्य सञ्जातपुत्रमरणस्मरणः क्षामस्वरोऽजनि । तदा च तं वैकुण्ठं तादृशं निध्याय सुवर्णटङ्कं चाऽविमुच्य व्रजन् भुजगो जगौ, हे वैकण्ठ ! तव पुत्रस्य मरणं स्मरति, मम चासौ पुच्छच्छेदः स्मरति । तेनाथ भनभावयोरावयोः का प्रीतिः ? यत:१. AHR शृण्वानेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.