________________
७९
तरङ्ग ३/ कथा ५७/५८ पुनः पुमानेव स्यात्, इत्याकर्णितप्रभावं मूलद्वयमादाय पुनरपि गुणचन्द्रो रूपसेनावेश्मनि गतः । तन्मूलप्रयोगेण च लोभाभिभूतां तां कुट्टिनी रासभी विधाय पृष्ठारोपितबहुभारां प्रचण्डदण्डेन निर्दयं तां ताडयन् गृहाल्लात्वा निर्ययौ । मातृशुद्धिविधित्सया समागतां रूपसेनां स स्माह, हे सुभगे ! यदनया रण्डयाऽहं भृशमभिभूतः, किं च यदनया मदीयं गृहीतमस्ति तत्सर्वं देहि, तदनु चैनां मुञ्चामीति विवदमानौ तौ राजनरै राज्ञः पुरो नीतौ । राजापि ज्यायांसं स्वसहोदरं विलोक्य सहसा सिंहासनादुत्थाय तत्पादौ च प्रणम्य तमात्मस्थाने न्यवेशयत् । रूपसेनापि तथावस्थं तमवलोक्य लज्जिता तदीयं सर्वं दत्त्वा च कृपया तेन मुक्तया स्वमात्रा सहिता स्वं धाम जगाम । तावपि सहोदरौ चिरकालान्मिथः सङ्गमेन कथितस्वस्वकर्माणौ चिरानुभूतराज्यशर्माणौ यथाविहितधर्ममर्माणौ कलितसुगतियुवतिनिर्माणौ बभूवतुः ॥ इति लोभाभिभूतामिहापि विडम्बनेत्यर्थे कुट्टिनीकथा ॥५७ ॥
॥५८ ॥ मतिविषये कमलाधरविप्रकथा ॥ बुद्धिमानेव नरो नरः प्रोच्यते, यतः
सुधीः शास्त्रे बली युद्धे वाग्मी दौत्ये क्षमी तपे ॥
दानी वित्ते दृढः कृत्ये वशी गेहे पुमान् पुमान् ॥ १ ॥ किं चाऽधीतैरपि शास्त्रैरमतीनां नार्थसिद्धिः, यतः
यस्य प्रज्ञा स्वयं नास्ति शास्त्रं तस्य करोति किम् ? । .
लोचनाभ्यां विहीनस्य मुकुरः प्रकरोति किम् ? ॥ २ ॥ तेन पठितैरपि शास्त्रैर्निर्बुद्धित्वेन जडाः सन्तो जना अनर्थभाजः स्युः । यतः
- वरं बुद्धिर्न सा विद्या विद्यातो बुद्धिरुत्तमा ॥
बुद्धिहीनाः क्षयं प्रापु-र्यथा ते सिंहकारकाः ॥ ३ ॥ तथाहि-पृथिवीभूषणे पुरे गदाधरश्रीधरगङ्गाधरलक्ष्मीधरकमलाधरनामानो द्विजन्मानो मिथः प्रकामं प्रीतिभाजः पञ्च सुहृदः । तेषु चत्वारोऽधीतशास्त्रा अपि पिमतयः, पञ्चमस्तु कमलाधराभिधोऽनधीतशास्त्रः, परं मतिमान् ।
एकदा ते पञ्चापि सम्भूय परदेशे प्रस्थिताः, क्रमेण महतीमरण्यानीं प्राप्ताः परस्परमिति जगुः । आत्मानः चत्वारः पण्डिताः, अयं तु मूर्खस्तेन कनकादिलाभेऽपि नास्य भाग इति तं पृथग् विधाय पुरतो गच्छन्तस्ते क्वापि प्रदेशे स्वयं मृतस्य सिंहस्य कङ्कालं विलोक्य स्वस्वविद्यामाहात्म्यविलोकनार्थमिति प्रोचुः । तदा चादिमः स्माह मृतस्यास्य सिंहस्येमान्यस्थीनि यथास्थानं निवेशयामीति मम शक्तिः, ततो द्वितीयोऽवोचत् तथाविधस्य सिंहस्य चर्म सूत्रयामीति मम शक्तिः, ततस्तृतीयः स्माह तादृशस्य सिंहस्य मांसरुधिरादिधातून् विदधामीति मम शक्तिः, १. तुला- बृहत्कथाकोशे पृ. १०२-१०३, भगवती आ. ११२५, प्रबंधपंचशती पृ. २२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org