________________
७८ श्री कथारत्नाकरे
श्री हेमविजयरचिते इतश्चाधीत्य भोजनवेलायां गृहमागतौ तत्सुतौ मातरमपश्यंतावन्यद्भोजनं चालभमानौ तस्यैवामिषस्य लेशं भुक्त्वा स्वैरं चिक्रीडतुः । समागते च तस्मिन् जारे मात्रा प्रहितौ तौ पठनार्थं जग्मतुः । भोक्तुमुपविष्टः सोऽपि तस्यामिषस्य मध्ये तौ चूडा-काकलकावदृष्ट्वा सुताभ्यां च जग्धाविति विज्ञाय विहितपरिरम्भां रम्भां जगाद, हे विलासिनि ! तवाहं, मम च त्वमित्यावयोः प्रेम, तेन यदि मम प्राणैस्तव कृत्यं, तदा त्वत्सुतयोरामिषं मां भोजय न चेत्प्राणांस्त्यक्ष्यामि । किञ्च मयि जीवति ते बहवः सूनवः, परं मृतोऽहं क्वेति तन्निर्बन्धबद्धा कामं कामान्धिता सा तदप्यकृत्यमङ्गीचकार । तदा च भित्त्यन्तरे स्थिता सुस्थिता तयोरिममालापमशृणोत् । तस्य मुनेरुक्तं तयोश्च तमालापं सा द्रुतं कलाचार्यशालायां स्थितयोस्तत्सुतयोरवक् । तावपि च तत एव जीवितमादाय नष्टौ गतौ च क्रमेण भूयसीं भुवम् ।
तदा च प्रभाते स्वमुखात्पतितं मणिमालोक्य गुणचन्द्रो लघीयसि भ्रातरि सप्तमेऽहनि राज्यं निश्चित्य क्रमेणाऽवन्तीवनमाशिश्राय । शरीरचिन्तार्थं गतो गुणचन्द्रो निष्पुत्रस्य मृतस्यावन्तिपते राज्यं भ्रातुः श्रुत्वा स्वयं रूपसेनाया रूपजीवाया वेश्मनि गत्वा मुखात्पतितमणिप्रभावेण सम्पूरितसमीहितस्तया सह सुखं बुभुजे । एकदा राजसेवादिव्यापारैर्विना स्वैरं सुखमनुभवन्तं तं वीक्ष्य कुट्टिन्या प्रेरितया रूपसेनया सोऽभाणि, हे नाथ! कथं निर्व्यापारः सन् सुखमनुभवसीत्यादिना तस्या बाढनिर्बन्धेन तेन मणिव्यतिकरे कथिते सति सा कुट्टिनी रेचेण तं काकलकमादाय तं गृहान्निष्किासयामास ।
सोऽपि वनं भ्रमन्नेकत्र मृतस्यैकस्य योगिनश्चतुरः शिष्यान् विवदमानानुदीक्ष्य विवादकारणमप्राक्षीत् । तेऽपि प्रोचिर नभोगामिपादुकायुगं, कामितभोजनदायिपात्रं, प्रतिदिनं लक्षसुवर्णदायिनी कन्था, रिपुविजयकारी चैष दण्डः, इति मृतस्यास्मद्गुरोरेतद्वस्तुचतुष्टयमस्ति । तेन मिथो विभक्तुमशक्तानामस्माकमिमं विवादं त्वं भिन्धि एवं तेषां वचनं निशम्य समुत्पन्नमति: स स्माह यो मया मुक्त बाणं प्रथममानयति तस्यैते पादुके, तदनु तस्य चैतत्पात्रं, तदनु तस्य चैषा कन्था, तदनु तस्य चैष दण्ड इति पणं विधाय तन्मुक्तान् बाणानानेतुं युगपद्धावितेषु तेषु स पादुके परिधाय नभोगत्योत्पत्याऽवन्त्यां तस्या एव रूपसेनाया वेश्मनि समेति स्म। पुनरपि तथैव पादुकानां व्यतिकरे कथिते सति तया कुट्टिन्या दूरतरगिरिगुहागतगौरीदेवीनमस्कारदम्भेन मोहितस्तया कुट्टिन्या सहितः पादुकारूढस्तन्नमस्करणाय तत्र गिरौ गतः, तत्राप्यादौ देवकुलान्तस्तस्मिन् प्रविष्टे सा कुट्टिनी पादुकारूढा नभोगत्या स्वस्थानमागात्।
गुणचन्द्रोऽपि ततो निर्गतस्तामविलोक्याऽधनत्वेन तत्रैव वने भ्रमन्नेकदा निशायामेकस्य वटस्य शिरसि तस्थौ । तदा च तत्रागतानां तेषामेव योगिनामेकतमो योगी केनाप्येकेन योगिना सहेति किंवदन्तीं कुर्वन्नभूत् । यदनेन मूलेनाऽऽघ्रातेन पुमान् खरः स्यात्, अनेन चाऽऽघ्रातेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.