________________
तरङ्ग ३ / कथा ५६/५७
इति चतुरचित्तचमत्कारिणा नव्येन काव्येन रञ्जितमना यथेच्छं वरं वृणु इति तं प्रसरिः प्राह । हे देव ! पूर्वदेशोपद्रवं विमुच्य स्वदेशं व्रजेत्यभिहितः स राजा बहुकरितुरगमणिकनकपट्टकुलादिना तं सत्कृत्य स्वदेशमागात् । गृहमागतो नीलकण्ठोऽपि प्रकामोपकारित्वेन राज्ञा पौरैर्जनपदैश्च धनादिभिः पूजितश्चिन्तयाञ्चक्रे, यन्मया मिथ्यादृशः स्तुतिरकारि तदालोचनाकृते व्रतादानमेव [ श्रेय ] इति [ ध्यात्वा ] स नीलकण्ठ : स्वीकृतव्रतो विहिततपा माहेन्द्रदेवेन्द्रतामाससाद ॥ इति कविकलायां नीलकण्ठविप्रकथा ॥ ५६ ॥
॥ ५७ ॥ लोभाभिभूते विडम्बनायां कुट्टिनीकथा ॥ लोभे सति ध्यानमौनादि सर्वमन्तर्गडु एव, यतः -
किं ध्यानैर्मुखसद्मपद्मशशिभिः किं चेन्द्रियाणां जयैः । रुद्धेच्छैस्तपसां पुनः प्रतपनैः किं मेदसां शोषणैः । किं वाचां जनितश्रमैः परिचयैः किं क्लेशजातैर्व्रतै । श्चेल्लोभोऽखिलदोषपोषणपटु-र्जागर्त्ति चित्तेऽर्त्तिभूः ॥ १ ॥
किं च सर्वेषां पापानां मूलं लोभ एव, यतः -
स्नेहमूलानि दुःखानि रसमूलाश्च व्याधयः 1 लोभमूलानि पापानि त्रीणि त्यक्त्वा सुखी भव ॥ २ ॥ तेनेहापि लोभवशादनर्थपरंपराऽभ्येति, यतः
७७
लोभाभिभूतान् प्रभवन्ति भूतान् दुःखान्यसंख्यानि पदे पदेऽपि । आघ्राय मूलं खलु शङ्कुकर्णा यत्कुट्टिनी लोभवशाद् बभूव ॥ ३ ॥ तथाहि-- लोहाकरे नगरे धनदत्त : सार्थपतिः, तस्य च सौभाग्यजितरम्भा रम्भानामप्रेयसी । तत्कुक्षिप्रभवौ च गुणचन्द्र - रूपचन्द्रनामानौ नन्दनौ, अन्यदा प्रिये परदेशे गते सति सा रम्भा सौभाग्यसुन्दरेण कस्यापि सार्थपतेः पुत्रेणोपपतिना निरङ्कुशं विषयसुखं सिषेवे । का तद्गृहमागतेनैकेन मुनिना तदीयमेव चरन्तं चरणायुधमालोक्य स्वान्तेवासी भणितः, हे वत्स ! योऽमुष्य ताम्रचूडस्य चूडामत्ति, तस्य सप्तमेऽहनि राज्यं, यश्चास्य काकलकं भुङ्गे तन्मुखात्प्रतिप्रभाते सपादकोटिकनकमूल्यो मणिः पतति ।
इति तदुदितं सर्वं भित्त्यन्तरे स्थितः स जारस्तत्रैव स्थिता सुस्थिताभिधा दासी चाऽ शृणोत् । अथ स जारो रम्भां रहसि स्माह, हे सुन्दरि ! यदि तव मया सह कृत्यं, तदैनं निशावेदिनं निहत्य मां भोजय तद्रागसागारान्तर्निमग्ग्रा सापि तदुक्तं प्रतिश्रुत्यैकान्ते तं चरणायुधं विनाश्य घृतादिभिस्तन्मांसं च संस्कृत्य सौभाग्यसुन्दरस्यागममीक्षमाणा प्रातिवेश्मिकवेश्मनि समियाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org