________________
७६ श्री कथारत्नाकरे
श्री हेमविजयरचिते हे भगवति ! किमनया स्तुत्या? यत्र वैरिण्याः सपत्न्या नाम शैलसुतेति, तेनास्य पापस्य मुखमपि वीक्षितुं नौचितीमञ्चतीति यमुनयोक्ता गङ्गापि शैलसुतेति सपत्नीनाम श्रवणात्सञ्जातकोपा धिगिति तं विधाय स्वास्पदमलञ्चकार ॥ इति सपत्नीनामश्रवणेऽपि रोष इत्यर्थे गङ्गाकथा ॥५५ ॥
॥५६॥ कविकलायां नीलकण्ठविप्रकथा ॥ अक्षराणि पदानि कविमुखानि च तान्येव, किन्तु कविविशेषप्राप्तानि सुन्दराणि,यतः
तेहिज अक्षर ते ज पय, जण जण ते हि चवंति ।
कुणहिक कवियण केलवण, अमियरसायण हुंति ॥१॥ तेन कवयो हि प्रभावभाजः, यतःपावयणी धम्मकही, वाई नेमितिओ तवस्सी य ॥ विजा सिद्धो अ कई, अद्वेव पभावगा भणिआ ॥२ ॥[ प्रवचनसारोद्धारे] किं बहुना? सर्वेषां हि मान्या एव कवयः, यतः
वाचां चयैश्चूर्णितचन्द्रिकाणां न वन्दते कः क्रमणौ कवीनाम् ।
यन्नीलकण्ठः कविरीहितार्थं, छायेति काव्यात्प्रसरेरवाप ॥ ३ ॥ तथाहि-सिन्धुदेशे प्रवरे पञ्चपट्टणे नगरे प्रबलप्रतापपराभूततरुणतरणिः प्रसरिनामभूपतिरासीत् स चान्यदा विधौ विधुन्तुद इव पूर्वदेशे कुपितो, वनं वनगज इव पूर्वदेशं ध्वंसमानः समानकनगरं रुरोध, तत्र च बहुचैत्यानामुपाश्रयाणां सङ्घस्य च विनाशं विलोक्य कृतमिथ्यादृक्स्तुतिनियमोऽपि सङ्घोपरोधेन कविकलाकुशलः शक्तिमान् वादिवृन्दभुजङ्गनीलकण्ठनामा विप्रश्रावको नगरान्निर्गत्य प्रसरिराज्ञः समीपमभ्यागात् । विप्रभक्तत्वेन प्रसरिरपि तमासनदानादिनाऽतीव सत्कृत्य स्वागतप्रश्नपूर्वकं प्राणमत् ।
श्रीसर्वमङ्गलालिङ्गी जटामुकुटमण्डितः ।
भवतां भूतये भूया-न्महादेवो वृषध्वजः ॥ ४ ॥ इति शुिष्टार्थेनाऽऽशीर्वादेन स्तुतिमस्तुतिं च दर्शनशुद्धये विधायोपविष्टं तं प्रसरिः प्राह, हे पण्डित ! कुतः समागाः? मार्तण्डमण्डलादिति तेनोक्ते तत्र किमस्तीति प्रसरिरप्राक्षीत्, हे देव! श्यामाङ्गी छाया गौराङ्गी कान्तिश्चेति सूर्यस्य द्वे भार्ये, एकदा समीपस्थितां कान्तिं श्रीमान् सहस्ररश्मिरभ्यधात्
हे छाये ! वद रेऽतमः कथय किं रण्डेऽस्मि घर्मद्युतिबूंषे नाम कुतो रिपोस्त्वमपि मे कान्तेः सपत्नी कुतः। किं श्यामास्युपगृहितास्मि बलत:कैः पूर्वदिक्पार्थिवैः, श्यामाङ्गैः प्रसरेः प्रतापशिखिना प्लुष्टैर्वजद्भिर्दिवम् ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.