________________
तरङ्ग ३/ कथा ५४/५५ किं बहुना? सपत्नीनां नामाऽपि श्रुतं न प्रीतये, यतः
सपत्नीदर्शनं दूरे श्रुतं नामाप्यसौख्यदम्।
गङ्गा विप्राय नो तुष्टा श्रुतं शैलसुतेति यत् ॥ ३ ॥ तथाहि-गङ्गोपकण्ठवर्त्तिनि ब्राह्मणाभिरामे ब्राह्मणपुरग्रामे चतुर्भुजो नाम द्विजो बहुशास्त्रविशारदोऽपि निर्धनत्वेन विधुरो धरायां धराधीशामात्यसेनापतिसार्थवाहश्रेष्ठिसीमाधीशादीनां विहितमार्गणोऽपि दुर्दैववशेनाप्राप्तधनलेशचिन्तयाञ्चक्रे। किमर्थहीनानां जीवितेन? यतो दौर्गत्यान्मरणं श्रेयः, यतः
उत्तिष्ठ क्षणमेकमुद्वह सखे! दौर्गत्यभारं मम। श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम् । इत्युक्ते धनवर्जितेन सुधिया गत्वा श्मशाने शबो ।
दौर्गत्यान्मरणं वरं वरमिति ध्यात्वैव तूष्णीं स्थितः ॥ ४ ॥ तेन मरणमपि तीर्थेऽनुष्ठितं परत्रामुत्र शर्मकृदिति ध्यात्वा गङ्गायमुनयोः संगमः परमं तीर्थमिति स तत्र गत्वा गाङ्गैः पयोभिः कृतमज्जनो विमुक्तभोजनो गङ्गाध्यानैकलीनो गङ्गार्पितनयनो यावत्तिष्ठति, तावत्तत्तपोऽनुभावेन शुभ्राभरणवसनविलेपनहारिणी कमनीयकनककमण्डलुधारिणी सुरासुरवृन्दवन्दितक्रमकमला कुन्देन्दुकुमुदकर्पूरपूरधवला सहायातसूर्यसुता जह्नसुता प्रादुरासीत् चतुर्भुजोऽपि साक्षान्महानन्दश्रियमिव मन्दाकिनीमवलोक्य मुकुलितकरकमल: शिर:श्रुिष्टसर्वंसहातल: सद्यो विहितमेकं स्वानुष्ठितार्थगर्भ काव्यमपाठीत्
मात: ! शैलसुतासपत्नि! वसुधाशृङ्गारहारावलि! । स्वर्गारोहणवैजयन्ति! भवतीं भागीरथी प्रार्थये । त्वत्तीरे वसतस्त्वदम्बुपिबतस्त्वद्वीचिषु प्रेङ्खत
स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः ॥ ५ ॥ इदं काव्यमाकर्ण्य भगवती भागीरथी दध्यौ, अहो मय्यमुष्य महीयसी भक्तिः, यत् सकलार्थसाधनसाधीयसीमपि मामालोक्यापि मत्तटे मरणमेवायमीहते, नान्यत्किमपीति मत्वा सा तमाह, हे भद्र ! यथेच्छं वरं वृणु, तदा च यावत्स वक्ति तावत्तदभाग्यप्रेरिता तत्र स्थिता कलिन्दकन्या जह्नकन्यामूचे हे परमेश्वरि! भागीरथि! कथमस्मै पापात्मने वरं दत्से? हे भगवति! यदसौ मयि भृशं भक्तो मत्स्तुतिकर्ता चेति द्विजन्मनोऽस्य वरं वितरामीति वादिनी नभोवाहिनीं रविदुहिताऽभिहितवती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org