________________
७४
श्री कथारत्नाकरे
॥ ५४ ॥ मूर्खचेष्टिते कथा ॥
ऐहिकामुष्मिकश्रियो हि मूर्खाणां न स्युः, यतः -
भृङ्गाः पुष्पमिवागन्धं सरः शुष्कमिवाण्डजाः । मृगा इव वनं दग्धं मूर्ख मुञ्चन्ति सम्पदः ॥ १ ॥ तेषां मूर्खाणां चेष्टितं हास्यहेतुरेव, यतः -
मरिष्यसि मृतोऽभूवं जीवन्नसि च जीवितः । भट्टेनोक्त इति स्माहा - Sऽभीरो धिग् मूर्खचेष्टितम् ॥ २ ॥
तथाहि - जडोदरे ग्रामे भरमो नामाऽऽभीरो मूर्खमुख्यः स चैकदा वटशाखायामपरस्मिन् भागे स्थित्वा तन्मूलं छिन्दन् तत्समीपे गच्छतैकेन भट्टेनाभाणि, हे भद्र! शाखायां कृत्तायां सत्यां पतिष्यसि पतितश्च मरिष्यसि चेत्यभिधाय गते भट्टे कृत्ता शाखा, पतितश्च स दध्यौ, अहो स ज्ञानी, तदुक्तं सत्यमभूत् । तेन पतितोऽहमथ मृतो भवामीति ध्यात्वा व्यात्तवदननयनं निरुद्धश्वासं प्रसारितपाणिपादं तं मृतमिति मत्वा तत्सम्बन्धिनो वल्लवास्तं स्मशाने नीत्वा चिताभ्यर्णे स्नानं कारयन्ति स्म ।
तदा च दैवात्तत्रागतेन तेनैव भट्टेन किं जातमस्येत्यभिहिते मृतोऽसाविति ते चाभीरा बभाषिरे, चेष्टयाऽवसितजीवितचिह्नेन तेन भट्टेनायं जीवन्नस्तीति कथिते समुत्थितः स तैरभाषि, हे किं जातं तवेति, तदा भरमोऽप्यभणत्, अनेनैवोक्तं शाखातः पतिष्यसि पतितश्च मरिष्यसि, तेन पतितो मृतश्च, अनेनैवोक्तमयं जीवन्नस्तीति जीवितोऽस्मि, नान्यत्किमपि जातमिति निशम्य धिग् त्वां मूर्खमित्यभिधाय ते सर्वेऽपि स्वस्थानमगुः ॥ इति मूर्खचेष्टिते कथा ॥ ५४ ॥
॥ ५५ ॥ सपत्नी नाम श्रवणेऽपि रोषे गङ्गाकथा ॥ योषितां हि सपत्नीसम्बन्धे परममसुखं, यतः -
Jain Education International
आज्ञाभङ्गो नरेन्द्राणां गुरूणां मानमर्दनम् । पृथक् शय्या च नारीणा - मशस्त्रवध उच्यते ॥ १ ॥
किं च सपत्न्यो नाम्नैव भगिन्यो न चार्थतः, यतः
श्री हेमविजयरचिते
भौमे मङ्गलनाम वृष्टिकरणे भद्रा कणानां क्षये, वृद्धिः शीतलिकेति तीव्रपिटके राजा रज: पर्वणि । मिष्टत्वं लवणे विषे मधुरता जाम्यं सपत्नीजने, पात्रत्वं च पणाङ्गनासु रुचिरं नाम्नैव नैवार्थतः ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org,