________________
तरङ्ग ३ / कथा ५२/५३
रोहिण्येव सुधामरीचिरवनेः पुत्र्येव पौलस्त्यजिद्वाहुभ्यां परिरभ्य गणिकया वित्तेहया कुष्ट्यपि ॥ २ ॥
किंबहुना ? प्रेमपराङ्मुखाः पण्यस्त्रियः स्वार्थकृते नररत्नमपि विनाशयन्ति । यतः - पुण्यपाथोजशस्त्रीषु पण्यस्त्रीषु रमेत कः 1
यत्स्वगर्वकृते वेश्या, कालिदासममारयत् ॥ ३ ॥
तथाहि —धाराधीशः श्रीभोजधराधीशोऽन्यदा राजपाटिकायां क्रीडां कर्त्तुं व्रजन्नेकस्मिन् पवनेनाऽनाहतपयसि सरसि हंसचक्रवाकबकादिद्विपदाभावेऽपि कम्पमानमेकमम्बुजमालोक्यैकं श्लोकं विधाय विहितविविधविनोदः स्वपुरं प्रविश्य चास्थानीं स्थितो माघादीनां स्वकीयानां पञ्चशतपण्डितानां पुरस्तात्तं लोकमपाठीत् । यतः -
अनिलस्यागमो नास्ति, द्विपदं नैव दृश्यते ॥
७३
वारिमध्ये स्थितं पद्म, कम्पते केन हेतुना ? ॥ ४ ॥
भोः पण्डिताः पूर्यन्तामसौ समस्येति पृष्टास्ते तां समस्यां नानाभावैः पूरयन्ति स्म । तथापि कविकलाकमलमरालीमण्डितमनोऽम्भोजो भोजो न चमच्चक्रे । विहिताऽहोरात्राऽवधिषु तेषु स्वस्वगृहाणि गतेषु राजापि सौधान्तरमगात् । तं वृत्तान्तं सम्यगवधार्य पठितसमस्याश्लोका राजचामरधारिणी कामलतानामपणाङ्गना गृहं गता सती गृहान्तस्तस्थुषे लब्धवाग्देवीवराय कविप्रवराय मनोभावसूचकवाग्विलासाय कालिदासाय तां समस्यां जगौ । सरस्वतीप्रसादेन कालिदासेनाऽपि तत्कालमेव कृतं समस्यापूरकश्लोकमधीत्याऽपरेऽहनि राजसभां व्रजन्ती वेश्या दध्यौ । यद लोकं कालिदासकृतं राजा ज्ञास्यति तदा प्रसादमस्य विधास्यति, न ममेति मत्वा सा पापा कालिदासं निहत्य भुवोऽन्तर्निधाय सभायां गता । समस्यामपूरयत्सु तेषु पण्डितेषु सा स्माह, हे देव ! समस्यामिमामहं पूरयामीति वादिनीं तां पूरयेति भूपोऽभ्यधात् । साऽवदत्पावकोच्छिष्टवर्णोऽयं शर्वरीकृतबन्धनः ।
मोक्षं न लभते कान्ते ! कम्पते तेन हेतुना ॥ ५ ॥
इति चमत्कारिणीं मनोऽभिप्रायानुसारिणी समस्यां ज्ञात्वा वर्णप्रमितत्वेन द्वात्रिंशल्लक्षसुवर्णदानोद्यतं राजानमपरे पण्डिताः प्रोचिरे, हे देव! नैषा समस्याऽनया निरमायि, तत्कथमिति राज्ञोक्ते 'कान्ते' इति सम्बोधनं प्रियतमायाः, तेनास्याः समस्यायाः कर्त्ता कोऽपि पुमानिति तेषां वचनेन स्वनरैर्गवेषयित्वा तस्या गेहान्तरान्निर्गतं मृतं कालिदासं विलोक्य राज्ञा हा पापिनि ! पुरुषरत्नविनाशिनि ! रण्डे ! इत्यादिवचनैर्निन्दयित्वा राज्ञा सा नगरान्निष्कासिता । तेन धनेन च कालिदासस्योर्ध्वदैहिकं विधाय राजा तच्चितास्थाने चैत्यं तत्र च सुवर्णमयीं कालिदासप्रतिमामचीकरत् ॥ इति वेश्यासङ्गस्त्याज्य इत्यर्थे कालिदासकथा ॥ ५३ ॥ १. तुला - प्रबन्धचिन्तामणिभाषान्तरे पृ. ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org