________________
७२
किञ्च स्त्रीणां च जरा विडम्बिनी, यतः -
श्री कथारत्नाकरे
चन्द्रे लाञ्छनता हिमं हिमगिरौ क्षारं जलं सागरे । रुद्धाश्चन्दनपादपा विषधैररम्भोरुहं कण्टकैः । स्त्रीरत्नेषु जरा कुचेषु पतनं विद्वत्सु दारिद्रता । सर्वं रत्नमुपद्रवेण सहितं दुर्वेधसा निर्मितम् ॥ ६
||
तेनाऽनेन भक्षितेन मम किं ? स्त्रीणां चाऽतीवसौभाग्यदमिति मत्वा तेन राज्ञा प्राणेभ्योऽप्यभिमताया: कमलाया देव्यास्तत्फलमदायि, तयाऽपि स्वाभिमताय महामात्राय तस्मिन् फले दत्ते स दध्यौ
अलङ्करोति हि जरा राजामात्यभिषग्यतीन् । विडम्बयति पण्यस्त्री-मल्लगायकसेवकान् ॥ ७ ॥
तेनैतत्फलं जराविनाशित्वेन ममाऽभिमताया: कामसेनाया वेश्याया महोपकारकृदिति तेन महामात्रेण दत्तं तत्फलं प्राप्य साऽपि वेश्येति दध्यौ, किमनेन जग्धेन सदैव पातककारिण्या मम ? किन्तु विश्वोपकाररसिकस्य भर्तृहरिभूपस्यैतद्यच्छामीति सा सुवर्णस्थालस्थितं प्रवरपट्टकूलपिहितं पण्याङ्गनापङ्किप्रौढगीयमानाऽतुलमङ्गलं तत्फलं राज्ञः पुरः प्राभृतीचकार । तत्फलं सम्यगुपलक्ष्य पणस्त्रीपरम्परया च तस्य सर्वं वृत्तान्तं विज्ञाय सञ्जाताभङ्गवैराग्यरङ्गरञ्जितहृदयः सहृदयः स राजा सभ्यानां पुरस्तादिदमवादीत् । यतः
यां चिन्तयामि सततं मयि सा विरक्ता, साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परिखिद्यति काचिदन्या, धिक् तां च तं च मदनं च इमां च मां च ॥ ८ ॥ इत्यभिधाय बीजपूरवृत्तान्तं च सर्वं सभ्यानां निवेद्य द्विनवतिलक्षग्राममण्डितमालवाधिपत्यं च तृणमिव विमुच्य भर्तृहरिर्योगमङ्गीचकार ॥ इति स्त्रीचरित्रं विभाव्य वैराग्यं कर्त्तव्यमित्यर्थे भर्तृहरिनृपकथा ॥ ५२ ॥
१. भीरुवर्गो AH I
श्री हेमविजयरचिते
॥ ५३ ॥ वेश्यासङ्गत्यागे कालिदासकथा ॥ खललेखास्विव निःस्नेहासु वेश्यासु कः प्रणयः ? यतः -
कः कोपः कः प्रणयो, नटविटहतमस्तकासु वेश्यासु । रजकशिलातलसदृशं, यासां जघनं च वदनं च ॥ १ ॥ एता हि श्रीलोभविह्वलाः कुष्ठिभिरपि स्वैरं रमन्ते, यतः -
रत्येवासमसायकः पशुपतिः पुत्र्येव भूमिभृतः । शच्येवाप्सरसां पतिर्मुररिपुः पुत्र्येव पाथोनिधेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.