________________
तरङ्ग ३ / कथा ५१/५२
मण्डलान्तः पतितस्य तस्य साधवस्य मूर्ध्नि सहस्रभारमयं माहेश्वरं चक्रमपतत् । तेन चक्रभारेण च भृशं पीडितः साधवो - ऽहोरात्रेण परासुरभूत् । ते त्रयोऽपि सुहृदो गृहीतप्रभूतहेमभाराः स्वपुरमागत्य सुखिनो बभूवुः ॥ इति लोभे साधवविप्रकथा ॥ ५१ ॥
॥ ५२ ॥ स्त्रीचरित्रं विभाव्य वैराग्यं कर्त्तव्यम् इत्यर्थे भर्तृहरिनृपकथा ॥ योषितो हि कपटपटीयस्यः, यतः -
कवडाणं केलिकुलं, खाणि खेआण मूलमसुहाणं । पावाणं पट्टणयं, महिलं अहिलसइ को मूढो ॥ १ ॥ तेनैतासां चित्तवृत्तिं ज्ञातुं न कोऽप्यलं, यतः -
पयोधिपारं सुरशैलाभारं, दम्भोलिसारं पवमानचारम् । ज्ञातुं भवेयुर्बहवः समर्थाः सुलोचनानां न च चित्तवृत्तिम् ॥ २ ॥ तथाऽपि स्त्रीणां चरित्रं स्वधिया सम्यग् विज्ञाय केऽपि सुधीशिरोमणयो विरक्ताः स्युः, यतः -
७१
एणीदृशां वीक्ष्य विचेष्टितानि भवन्ति के नैव विरक्तचिता: ? ।
विलोक्य भूयः स्वकमातुलिङ्ग योगं दधौ भर्तृहरिर्नरेन्द्रः॥ ३ ॥
तथाहि — श्रीमत्यामवन्त्यां नगर्यां सकलशास्त्रपारीणः पुण्यवतां धुरीणः श्रीभर्तृहरि - नरेन्द्रः । स च महान्तमप्यन्यमवरोधं हित्वा सौभाग्यपराभूतकमलया कमलया देव्या सुखमनुभवति स्म । इतश्च तन्नगरनिवासी कविकलाभार्गवो भार्गवनामा द्विजन्मा जन्मदुर्गतो धनाऽभिलाषी समलङ्कृतसिप्रातटं सिद्धवटं नित्यमस्तवीत् ।
अन्यदा तत्स्तुतिरञ्जितया तद्वटवासिन्या देव्या वटवासी स्वरमणोऽभाणि, हे प्राणनाथ ! स्तुतिकर्तृत्वेन विप्रत्वेन च द्विधाप्यसौ मान्यः इत्युक्तः स वटवासी जराद्युपद्रवचूरकमेकं बीजपूरकं तस्मै दत्त्वा तिरोदधे । भार्गवोऽपि तमादाय गृहमागत्य च तं भोक्तुमुपविष्टो दौ यदजरस्य सजरस्य वा मम भिक्षैव शरणं, तेनेमं धर्मवतामवधये न्यायसेवधये प्रजाजनकाय भर्तृहरये भूमिपतये ददामि यतो नीतिमति भूमिपतौ सति प्रजा सुखिनी । यतः
,
Jain Education International
वर्षा नदीनामृतुराट् तरूणा - मर्थो नराणां पतिरङ्गनानाम् । न्यायप्रधानश्च नृपः प्रजानां गतं गतं यौवनमानयन्ति ॥ ४ ॥
इति मत्वा स तं मातुलिङ्गं राज्ञे दत्त्वा तद्गुणं गदितवान् । राजाप्यमृतफलस्येव तस्य तुष्ट जीवित कनकदानपूर्वं भार्गवं विसृज्येति चिन्तितवान् । राज्ञां हि जरा भूषणं, यतःविज्जो राया मंती, समणा पणं च आसवो मग्गो ।
देवो सत्थं दंडी, एए अरहंत जरजुत्ता ॥ ५ ॥
For Private & Personal Use Only
www.jainelibrary.org