________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते तदा चाऽतुलज्वलनतापविह्वलौ यथाजातावुद्घाटितमस्तकौ साक्षात्पिशाचाविव चितामध्यादुत्थितौ तौ दृष्ट्वा ते पञ्चाऽपि पुरतो नष्टाः, पृष्ठतश्च द्वयं तव त्रयं ममेति वादिनौ तावपि पुराभिमुखं धावितौ । ग्राम्यैरपि यष्टिमुष्टिप्रहारैः प्रकामं निहतौ स्ववृत्तान्तं कथितवन्तौ, धिग्मूर्खचेष्टितमिति लोकैर्निन्दितौ कृपया च दत्तवस्त्रौ तौ स्वस्थानं गतौ ॥ इति मूर्खद्विजकथा ॥५०॥
॥५१॥लोभे साध्वविप्रकथा ॥ विनयप्रतिपत्तिप्रीतिविनाशकारणं हि लोभ एव, यतः
कोहो पीइं पणासेइ, माणो विणयनासणो ।
माया मित्ताणि नासेइ, लोहो सव्वविणासणो ॥१॥ [दसवै० ८/३८] तेन लोभपराभूतचित्ता हि किं किं न कुर्वन्ति ? यतः
यद् दुर्गामटवीमटन्ति विकट क्रामन्ति देशान्तरं । गाहन्ते गहनं समुद्रमतनुक्लेशां कृषि कुर्वते ॥ सेवन्ते कृपणं पतिं गजघटासङ्घट्टदुःसञ्चरं ।
सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ २ ॥ किं बहुना? लोभवतामेव क्लेशः । यतः
के न यान्ति धनलोभपिशाच-ग्रस्तचित्तशिशवोऽसुखमुच्चैः।
ताम्ररूप्यकनकानि विहाय, ब्राह्मणोऽसुखमवापदतुष्टः ॥ ३ ॥ तथाहि-सुरसुन्दरग्रामवासिनः सर्वदा निर्धना माधवकेशवराघवसाधवनामानश्चत्वारः सुहृदो द्विजन्मानः पिशाचेनेव दौर्गत्येन परिभूताः सन्तो गृहान्निर्गत्य भुवि भ्रमन्तः सपादलक्षशैलमूलनिवासिनं सिद्धनाथनामानं योगिनमाराधयामासुः ।
___ द्वादशवर्षान्ते तेषां विनयप्रतिपत्त्या रञ्जितेन योगिना मूलिका दत्ताः, यत्रैताः पतन्ति तत्र खननीयमित्यभिधाय तेषामेकैका सिद्धिमूलिका दत्ता । सिद्धिमूलिकापाणिषु तेषु कौबेरी दिशं व्रजत्सु कुत्रापि भूमिप्रदेशे माधवस्य हस्तात्सिद्धिमूलिका पतति स्म । तत्र च तेन खनिते निर्गतं तानं, तं च माधवं विमुच्य पुरश्चलितेषु तेषु केशवस्य हस्तात्सिद्धिमूलिका पतिता । तत्र तेनाऽपि खनिते निर्गतं रूप्यं, तच्च केशवं च हित्वाऽग्रतश्चलितयोर्द्वयो राघवस्य करात् सिद्धिमूलिका पपात। तत्राऽपि तेन खनिते निर्गतं कनकं विलोक्य राघवो माधवकेशवसाधवानाकार्य त्रीनपि प्रोचे, यथेच्छमेतत्कनकं गृह्यतामनुगृह्यतामयं च स्वसुहृद् माधवकेशवौ तु त्यक्तताम्ररूप्यौ तद्वाचमङ्गीचक्रतुः, [परं साधवस्तदप्यगृहीत्वाऽग्रतश्चचाल] । तैर्वारितस्याऽपि प्रभूतलोभाऽभिभूतस्य मणिमाणिक्यहीराऽऽदिबहुमूल्यवस्तुवाञ्छया पुरःप्रस्थितस्य माहेश्वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org