________________
तरङ्ग ३ / कथा ४९/५०
प्रणतप्रभूताऽऽखण्डलः निहतनिखिलवैरिवनितावर्गनयननीरनिषिक्तप्रतापपादपमूलः सज्जनजननयनानुकूलो जय श्रीभुजाभासुरकण्ठदेशः सकलसाम्राज्यकमलाकेलिसन्निवेशो नीतिकैरविणीचन्द्रः श्रीरामचन्द्रः स्वपुरमागच्छन् वसिष्ठाऽऽ श्रममासन्नं विज्ञाय सविनयं सौमित्रिणा विज्ञप्तः, देव ! गुरोश्चरणारविन्दवन्दनाय साम्प्रतमयमवसरः ।
हे
तत्रागतः श्रीरामोऽपि प्रधानाऽऽसनदानाऽऽदिना भूयसीं प्रतिपत्तिं कुर्वाणं गुरुं प्रत्यवादीत्स एव त्वं स एवाऽऽहं स एवायं त्वदाऽऽ श्रमः । पूर्वं निरादरोऽभूस्त्वं, साम्प्रतं किमु सादरः ? ॥ ४ ॥ रामेणेत्युक्ते प्रभुणा सत्यं वक्तव्यमिति नीतिनिपुणो वसिष्ठोऽप्यभाषिष्टस एव त्वं स एवाऽहं स एवाऽयं मदाऽऽ श्रमः । पूर्वं तु निर्धनोऽभूस्त्वं, साम्प्रतं हि पुरन्दरः ॥ ५ ॥ तेन हे पृथिवीपुरन्दर! पुनरपि शृणु -
धनमर्जय काकुस्थ !, धनमूलमिदं जगत् । अन्तरं नैव पश्यामि, निर्धनस्य मृतस्य च ॥ ६ ॥
इति गुरोर्वचनं सम्यग्मन्यमानः श्रीरामोऽपि स्वां पुरीमलञ्चकार ॥ इति मानकारणं धनमित्यर्थे लौकिकोक्ता श्रीरामकथा ॥ ४९ ॥
॥ ५० ॥ मूर्खद्विजकथा ॥ मूर्खा कार्याकार्यविवेकविकलाः स्युः, यतः -
मूर्खत्वं हि सखे! ममापि रुचितं यस्मिन् यदष्टौ गुणा । निश्चिन्तो बहुभोजनोऽत्रपमना नक्तंदिवा शायकः ॥ कार्याकार्यविचारणान्धबधिरो मानापमाने समः । प्रायेणाऽऽमयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥ १ ॥ तेन मूर्खाणां चरित्राणि हास्यकारीणि । यतः
६९
हास्यकृच्चरितं नूनं, बालिशानामहर्निशम् । पूपिकार्थं श्रितवतो - मरणं द्विजयोरिव ॥ २ ॥
तथाहि—बोडासणग्रामवासिनौ खेताख्यखीमाख्यौ मूर्खो त्रयीमुखौ सुमुखग्रामे भिक्षार्थं तौ । तत्र पूपिकापञ्चकं विधाय मिथो भागं विधातुमसमर्थौ सन्तौ तौ यः प्रथमं ब्रूते तस्य पूपिकाद्वयमन्यस्य त्रयं चेति पणं विधाय प्रसारितपाणिपादौ व्यात्तवदननयनौ निरुद्धनिःश्वासोच्छ्वासौ भूमिसुप्तौ तौ तथाऽऽवस्थौ विलोक्य ग्रामीणैर्लोकैर्हा वराकाविमौ मृतावित्यवधार्यैकस्यामेव त्रिकाष्ठिकायां निधाय बाढं च निबध्य बलवद्भिश्चतुर्भिराभीरैरुत्पाट्य पुरस्सरेणैकेनाग्निधरेण सह स्मशाने नीतौ, विवसनौ तौ चितान्तः प्रक्षिप्य तैरग्निज्वलितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org