________________
६८
श्री कथारवाकरे
Jain Education International
॥ ३ ॥ तृतीयस्तरङ्गः ॥
॥ ४९ ॥ धनमहत्त्वे श्री रामकथा ॥ सौभाग्यादिगुणभूषितोऽपि धनिकत्वेनैव पूज्यः स्यात्, यतः - गुणगणैः सहितोऽपि हि निर्धनो, भवति भूरिपराभवभाजनम् । लुठति किं विरसा न रसातले, स्रगतिरम्यसुमा सुगुणाऽपि हि ॥ १ ॥ किं बहुना ? श्रियमेव सर्वगुणाः श्रयन्ति । यतः -
यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ २ ॥ [ भर्तृहरिशतके ] तेनोत्तमवंशसम्भवानामपि पुंसां विभवैरेव गौरवम् । अत्राऽर्थे लोकोक्ता श्रीरामकथा यथाकुलं च शीलं च बलं च तादृग्, मान्यं न यादृग् विभवो हि मान्यः । श्रीरामचन्द्रेऽपि वने यियासो नैवातिथेयं गुरुरप्यकार्षीत् ॥ ३
तथाहि--अयोध्यायां कैकेयीप्रार्थितवरविनाशितमनोरथस्य दशरथस्य निर्देशेन सीतालक्ष्मणयुतः श्रीरामचन्द्रो वनवासमङ्गीकृत्य नगरीतो निर्गच्छन् लक्ष्मणमभाणीत्, हे बन्धो ! गुरुपादौ प्रणम्य पुरो गम्यते, लक्ष्मणः स्माऽऽह, हे पूज्यपादाः ! शरीरसङ्गतसिचयमात्र -धारिणां केवलं चरणचारिणां प्रतिश्रुतवनवासानां विमुक्तविनीतावासवसप्तभूमिकसंनिवासानां नाऽऽत्मनामयं गुरुपादप्रणामावसर इति वारितमपि राममागच्छन्तमाकर्ण्य गुरुरिति दध्यौ । नूनमेष वनं व्रजन्नकिञ्चनत्वेन किञ्चिद् यियाचिषुरिवाऽभ्येति । तेनाधुनामुना मिलनं न श्रेय इति मत्वा कायमानान्तः - कुटीरं लीनकाय एव वसिष्ठो गुरुर्ध्यानं कुर्वन्नस्तीति स्वशिष्यैस्तत्राऽऽगताय रामायाऽज्ञापयत् । रामोऽपि लक्ष्मणवचनं समीचीनं जानंस्ततो वनं प्रत्यचालीत् । बहुकालवनवासमनुभूय प्रियतमाऽपहारप्रकटितप्रभूताऽपराधकारणं निखिलक्ष्मापालकीर्त्तिकुमुदिनीप्रोन्मूलनैकवारणं प्रचण्डदोर्दण्डलीलातुलितकैलासं प्रबलप्रचुरपराक्रमं परास्तपौलोमीप्रमुखाऽप्सरोविलासम् अपारपारावारपरिखापरिकरितलङ्कादुर्गाधिनाथं सर्वत्रसूत्रितसञ्चरन्नक्तञ्चरसञ्चयसनाथं सुरासुरनाथनिकरनिषेवितकारासदनं दशवदनं वैरिणं निहत्य स्वकीर्त्तिस्तम्भमिव विभीषणं तत्र राज्ये निधाय च अनेकाऽनेकपमदपानीयप्रवाहप्लावितपथः स्वैरविहारिहयहेषारवव्याकुलिततारापथः प्रचलद्रथचीत्कारचलितदिग्दन्ताबलः प्लवमानानुप्लवपत्तिप्रकरपदप्रहारजर्जरितभुजङ्गमकुलः प्रभूतवर्यतूर्यरवपूरितरोदसीकन्दरः सुरासुरविद्याधरनरकिन्नरपरिकरसुन्दरः समाक्रान्ताऽखिलदिग्मण्डलः
श्री हेमविजयरचिते
For Private & Personal Use Only
||
www.jainelibrary.org