________________
तरङ्ग २ / कथा ४८
अथ सुवर्णमणिभूषणभरप्रवरचीवरादिभूषितः स्वभगिनी - भागिनेयी - भगिनीपतीनामुचितमाभरणवसननेपथ्यप्रमुखं प्रभूतं मातुलीयमादाय घेघाख्यस्तत्राऽऽययौ । दुर्गतत्वेन सुन्दरेतरवेषः शरीरशेष एव मेघाख्योऽपि तत्रागतः । अथ घेघाख्येन तत्रागतेन सर्वेऽपि मातुलीये दत्ते सति भोजनाऽवसरे तयोर्द्वयोरपि सोदरयोर्निकटस्थयोः पृथक्पृथक्स्थालस्थयोश्च मेघाई परिवेषयितुमागता सती ज्यायसो लघीयसश्च स्थाले पक्वाऽन्नकूरादिभेदं विधाय घृतस्यापि भेदं चक्रे । तदाऽग्रजस्य स्थाले प्रभूतं घृतमात्मनश्च स्थाले भृशमल्पमवलोक्य मेघाख्यो भ्राता मूर्द्धनि स्वं स्थालं निधाय समुत्थाय चैकं दोधकमभ्यधात् ।
अरथने आदर छे घणो, अवर म कारण जोड़ ।
घेघा घलहल नामीयें, मेघा टीप न होइ ॥ ४ ॥
इति निशम्य लोकैर्निन्दिता मेघाई । तौ सोदरौ स्वपुरं गतौ ॥ इति धनवतां मान इत्यर्थे घेघामेघाकथा ॥ ४८ ॥
इति पं० श्रीकमलविजयगणिशिष्य पं० श्रीहेमविजयगणिविरचिते श्री कथारत्नाकरे द्वितीयस्तरङ्गः
Jain Education International
समाप्तः
॥ श्रीरस्तु ॥
For Private & Personal Use Only
६७
www.jainelibrary.org